________________
पञ्चमः खण्डः - ललितानवावरणपूजा
एवं कामकलारूपं अक्षरं यत् समुत्थितम् । कामादिविषमोक्षाणामालयं परमेश्वरि ॥ इति ॥
एतदुत्तरं निबन्धे होम: पाक्षिक उक्तः, स निर्मूलः, " यद्यद्मिकार्यसंपत्तिः " इति सूत्रस्य गणपतिप्रकरणस्थस्य अन्यत्र प्रापकप्रमाणाभावात् ॥ १७ ॥
अथ बलिप्रकारमाह
१९९
बलिदानम्
वामभागविहितत्रिकोणवृत्तचतुरश्रे गन्धाक्षतार्चिते वाग्भवमुच्चार्य व्यापकमण्डलाय नमः इत्यर्धभक्तभरिताम्भसा आदि मोपादिममध्यमभाजनं तत्र
न्यस्य ॥ १८ ॥
अत्र वा म भागे त्यनेन शीघ्रोपस्थितत्वात् स्वस्यैव वामभागो ग्राह्यः । वि हि ते निर्मिते त्रिकोण वृत्त चतुरश्रे । निर्गमरीत्या त्रिकोणं स्वाभिमुखं ग्राह्यम्, तथा शिष्टसंप्रदायात् ॥
केचित्तु त्रिकोणे या बलिग्राहिणी देवता सा तिर्यग्रेखाद्वयसंयोगरूपकोणाभिमुखी, त्रिकोणवर्तिदेवतानां तथात्वनियमात् । एवं च तन्त्रान्तरे --
मूलदेव्युन्मुखां ध्यात्वा न्यस्याग्रे बलिपात्रकम् ||
इति वचनेन तस्या देवताया मूलदेव्युन्मुखत्वनियमात् । त्रिकोणमपि देव्युन्मुरवमेव न स्वाभिमुखमित्याहुः । तन्न, अनङ्गकुसुमादिश्रीचक्रस्थकोणेषु कोणपराङ्मुखीनां मूलदेव्यभिमुखीनां देवतानां बह्वीनां दृष्टत्वेन तादृशनियमासिद्धेः । न किंचिदेतत् ॥ गन्धाक्ष ते त्यनेन तदितरव्यावृत्तिः दर्शिता । अर्चने मन्त्रमाहवाग्भवमित्यादि । वाग्भवं ऐं इति । शेषं स्पष्टम् । अर्धं भक्तेन अन्नेन भरिताम्भसा च सहितमिति शेषः । इदं भाजने विशेषणम् । एकस्मिन् पात्रे अर्धाशं अन्नेन अर्धाशं जलेन पूरयेत् । ईदृशमेकं पात्रं क्षीरादिपात्रत्रयं च तत्र मण्डले न्यस्य । अत्र बलिपात्रं ताम्रमयम्,