________________
१९८
परशुरामकल्पसूत्रम्
केवलस्वपाण्डित्यमात्रख्यापकत्वं इदानीन्तनवेदान्तशास्त्राध्ययनवत् स्यात् । अतः प्रथमं परित्यज्य स्थूलमेव मन्दाधिकारिणामुपयोगाय वर्णयिष्यामः । तद्यथातुरीयस्वरे हकारे वा अंशत्रयं परिकल्प्य तत्र स्त्रीरूपं परिकल्प्य ऊोशे मुखकल्पनां मध्यमांशे कुचद्वयकल्पनां जघन्यांशे योनिकल्पनां च कृत्वा ध्यायेत् । तदुक्तं कुण्डलिनीविमर्श
शक्तिमध्यपरिकल्पितांशकेप्वन्तरङ्गपरिभावने पटुः ।
ऊर्ध्वमध्यतदधोविभागशः चिन्तयेन्मुखकुचावधोमुखम् ॥ अस्मिन् श्लोके शक्तिशब्दार्थः ईकारः इति बहवः । हकार इत्यपि केचित् । अधोमुखं योनिमित्यर्थः । शेषं स्पष्टम् । “ मुखं बिन्दं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्" इति श्रीभगवत्पादैरप्युक्तम् । सेतुबन्धे तु ईकार एव स्थूलध्यानमुक्तम् “ ईकारस्य बिन्दुविसर्गात्मनः शिवशक्त्योः सामरस्यरूपस्य स्वात्मत्वेन भावनायां परमानन्दानुभवः” इति पङ्क्तयाम् । साळग्रामे विष्णुबुद्धिवत् भगवत्या ध्यानाधिष्ठाननियमोऽयम् । एवं स्थूलध्यानेन जितान्तःकरणस्तादृशोपासकमकुटमणिः सूक्ष्मकलां सेतुबन्धादिलिखितां गुरुमुखात् ज्ञात्वा काममुपासीत । नान्ये इदानींतनाः तद्योग्याः । तादृशध्यानं च परदेवताश्रीगुरुप्रसादैकलभ्यम् । अयमर्थस्त्रिपुरार्णवे सुस्पष्टमुक्त:-" सूक्ष्मध्यानेऽसमर्थश्चेत् स्थूलं ध्यायेद्यथोक्तवित्' इति । इत्थं च पूर्वोक्तान्यतरवणे मुखं कु चौ यो नि चांशत्रये कृत्वा मनसा निर्माय का म क लां इति वक्ष्यमाणप्रकारेण ध्या त्वा, यथाऽवकाशमिति शेषः ॥ १६ ॥
वर्णविशेषे पूर्वोक्तावयवकल्पनानन्तरं विशिष्टे ध्यानप्रकारमाह
सौभाग्यहृदयमामृश्य ॥ १७ ॥
सौभाग्य स्य धर्मादिसकलपुरुषार्थस्य हृदयं स्थानं उपादानकारणमिति यावत् । ईदृशं पूर्वोक्तरूपं आ मृ श्य ध्यात्वा । पूर्वसूत्रस्थेतिशब्दस्य अत्राप्यनुवृत्तिः । अयमेवार्थः स्पष्टमुक्तो योगिनीतन्त्रे