________________
पञ्चमः खण्ड:--ललितानवावरणपूजा
नवमीं योनिमुद्रां तत्रैव विशिनष्टिमध्यमे कुटिलाकारतर्जन्युपरि संस्थिते । अनामिकामध्यगते तथैव च कनिष्ठिके ।। सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः ।
एषा तु प्रथमा मुद्रा योनिमुद्रेति या स्थिता ॥ इति ॥ अस्यार्थः-अनामिके मध्यमाऽधोमार्गेण कुटिलाकारतर्जन्युपरि व्यत्यस्ते स्थापयेत् । अनामिकापृष्ठलग्ने व्यत्यस्ते कनिष्ठिके संयोजयेत् । अङ्गुष्ठानद्वयं मध्यमामध्यपर्वद्वये योजयेत् । इयं योनिमुद्रा भवति । यद्यपि एतावानों न लभ्यते तेन वचनेन, तथाऽपि
अनामिकापृष्ठभागे मध्यमामध्यपर्वणि ।
कनिष्ठाङ्गुष्ठसंश्लेषान्महायोनिस्त्रिखण्डिका ॥ इति स्थलान्तरे । अस्यार्थः—या त्रिखण्डा सा महायोनिः । ततो विशेषस्त्वियान् —मध्यमामध्यपर्वणि अङ्गुष्ठसंयोगः, अनामिकापृष्ठभागेन कनिष्ठिकासंयोगः । शेषं त्रिखण्डया सममित्यर्थः । अनेन सह पूर्ववचनस्यैकार्थतायां क्रियमाणायां पूर्वलिखितार्थः संपद्यते ॥
____ एवं दशमुद्राः परमगहनाः यथामति सप्रपञ्चं सप्रमाणं प्रपञ्चिताः प्रासङ्गिकाः । प्रकृतमनुसरामः ॥ १५ ॥
कामकलाध्यानम् अथ कामकळाध्यानं वक्तुमुपक्रमते
बिन्दुना मुखं बिन्दुद्वयेन कुचौ सपरार्धेन योनि कृत्वा कामकळामिति ध्यात्वा ॥ १६ ॥
सूक्ष्मं कळाध्यानं स्थूलं चेति द्विविधम् । तत्र सूक्ष्मकामकळाध्यानस्य अस्मत्परमेष्ठिगुरुभिः उत्तरचतुश्शतीव्याख्याने विस्तरेण सेतुबन्धे वरिवस्यारहस्ये च