________________
१९
परशुरामकल्पसूत्रम् अङ्गुष्ठौ तु महेशानि कारयेत् सरळावपि ।
इयं सा खेचरी नाम मुद्रा सर्वोत्तमा प्रिये ॥ अस्य तात्पर्यम्—बाहू सरळौ प्रथमं कृत्वा दक्षबाहूपरि वामं स्थापयित्वा पुनर्वामं हस्तं दक्षहस्ताधोमार्गेण वामपार्श्वे निर्गमय्य हस्तद्वयामुळीः वक्ष्यमाणरीत्या प्रश्नीयात् । तद्यथा वामानामाकनिष्ठे दक्षमध्यमाधोमार्गेण दक्षतर्जन्यां नीत्वा एवं दक्षानामाकनिष्ठे वाममध्यमाऽधोमार्गेण वामतर्जन्यां नीत्वा हस्तद्वयतर्जनीभ्यां स्वसमीपागतानामाकनिष्ठे दृढं गृह्णीयात् । मध्यमे सर्वोज़ सरळे एवाग्राभ्यां परस्परसंलग्ने स्थापयेत् । अङ्गुष्ठौ सरळौ कृत्वा योनिसादृश्यं संपादयेत् । इयं खेचरीमुद्रा । यद्यप्युक्तार्थः सर्वोऽपि पूर्वलिखितवचने नास्ति, तथाऽपि
वामं भुजं दक्षभुजे दक्षिणं वामदेशतः । निवेश्य योजयेत् पश्चात् परिवर्त्य क्रमेण हि ॥ कनिष्ठाऽनामिकायुग्मे तर्जनीभ्यां निरोधयेत् । मध्यमे सरळे कृत्वा योनिवत् सरळौ ततः ।।
अङ्गुष्ठौ खेचरीमुद्रा पार्थिवस्थानयोजिता ।। इति ज्ञानार्णववचनेन सह एकवाक्यतां संपाद्य निष्कासितोऽर्थो ज्ञेयः ॥
अष्टमीमुद्राऽपि तत्रैव प्रकटिता
परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये । तर्जन्यङ्गुष्ठयुगळं युगपत् कारयेत् ततः ॥ अधःकनिष्ठाऽवष्टब्धे मध्यमे विनियोजयेत् । तथैव कुटिले योज्ये सर्वाधस्तादनामिके ॥
बीजमुद्रेयमचिरात् सर्वसिद्धिप्रवर्तिनी ॥ इति ॥ अस्यार्थः-अनामामध्यमामार्गेण व्यत्यस्ते कनिष्ठिके स्वाधोभागे मध्यमा यथा तिष्ठति तथा कुर्यात् । ततो मध्यमाद्वयं कनिष्टाद्वयावष्टम्भकं यथा तथा कुर्यात् । सर्वाधःस्थिते अनामे यावत्कुटिले भवतः तावत् कुर्यात् । अङ्गुष्ठतर्जनीयुगळं अर्धचन्द्राकृति यथा भवति तथा योजयेत् । इयं बीजमुद्रा भवति ॥