SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पञ्चमः खण्डः–ललितानवावरणपूजा १९५ अस्यार्थः – पुटाकारौ परस्परं पृष्ठसंलग्नौ ऊर्ध्वाग्राङ्गुळिकौ हस्तौ कृत्वा ततोऽङ्गुष्ठव्यतिरिक्ताङ्गुलयः परस्परमङ्गुलिसन्धिषु प्रवेश्य तर्जन्यादिकनिष्ठाऽन्ता अङ्गुलयः अङ्कुशाकाराः कुर्यात् । एवं कृत्वा ततोऽङ्गुष्ठद्वयं अधोमुखं तर्जन्युपरि स्थापयेत् । इयं सर्ववशंकरी इति भावः ॥ पञ्चम्यपि तत्रैव तु मुखौ करौ कृत्वा मध्यमामध्यगेऽनुजे । अनामिके तु सरळे तद्बहिस्तर्जनीद्वयम् ॥ दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ । मुद्रैषोन्मादिनी नाम क्लेदिनी सर्वयोषिताम् || इति ॥ अयमर्थः – वामकनिष्ठोपरि दक्षकनिष्ठां तिर्यगनामाद्वयोपरिमार्गेण मध्यमापर्यन्तं प्रसार्य तादृशकनिष्ठाऽग्रद्वयं मध्यमाद्वयेन दृढं गृह्णीयात् । गृहीतमध्यमानखोपरि दण्डाकारमङ्गुष्ठद्वयं स्थापयेत् । तथानामाद्वयं परस्पराभिमुख्येन सरळे कुर्यात् । अनामिकयोः पार्श्वद्वये तर्जनीद्वयमपि सरळं कुर्यात् । एषा सर्वोन्मादिनी मुद्रा योषिद्वश्यकरी इति ॥ षष्ठी मुद्राऽपि सर्वमहाङ्कुशा तत्रैव प्रकटिता अस्यास्त्वनामिकायुग्ममधः कृत्वाऽङ्कुशाकृति । तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ॥ इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिनी ॥ इति ॥ । अस्याः सर्वोन्मादिन्याः । तेनैव क्रमेण अनामिकाक्रमेण । अनामिकाऽङ्कुशाकारा । तथैव तर्जनीद्वयमपि कर्तव्यम् । शेषं पूर्वमुद्रावत् इति भावः ॥ सप्तमीं खेचरीमुद्रां तत्रैव व्याचचक्षे सव्यं दक्षिणहस्ते तु दक्षिणं सव्यहस्ततः बाहू कृत्वा महेशानि हस्तौ संपरिवर्त्य च ॥ कनिष्ठाऽनामिके देवि युक्त्वा तेन क्रमेण तु । तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ||
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy