________________
१९४
परशुरामकल्पसूत्रम् मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्ततः । अङ्गुष्ठावपि संयोज्य त्रिधा युग्मक्रमेण तु ॥
त्रिखण्डा मम मुद्रेयं त्रिपुराऽऽह्वानकर्मणि ॥ इति ॥ सर्वसंक्षोभिणीस्वरूपं तत्रैव
मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते । तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके ।
एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी ॥ इति ॥ तन्त्रराजे तु--
कनिष्ठाऽनामिकामध्याः नखैरन्योन्यसङ्गताः । कृत्वाऽङ्गुष्ठौ कनिष्ठास्थावृजू कुर्याच्च तर्जनी ॥
सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी ॥ इति ॥ सर्वविद्राविणी मुद्रा तत्रैव--
एतस्या एव मुद्राया मध्यमे सरळे यदि ।
क्रियते चेन्महेशानि सर्वविद्राविणी तदा ॥ इति ॥ मध्यमे मध्यमेऽपीत्यर्थः । एतेन तर्जनीमध्यमयोः द्वयोः सरळत्वं ज्ञेयम् ॥
तृतीयमुद्राऽपि तत्रैवोक्ता
मध्यमा तर्जनीयुग्मे वक्रीकुर्यात् सुलोचने ।
एतस्या एव मुद्रायास्तदाकर्षणकारिणी ॥ इति ॥ तत्रैव चतुर्थी मुद्रा सर्ववशंकर्युक्ता
पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती । परिवर्त्य क्रमेणैव मध्यमे तदधोगते ॥ क्रमेण देवि तेनैव कनिष्ठाऽनामिके अपि । संयोज्य निबिडाः सर्वाः अङ्गुष्ठावग्रदेशतः ॥ मुद्रेयं परमेशानि सर्ववश्यकरी स्मृता ॥ इति ।