________________
१९३
पश्चमः खण्ड:-ललितानवावरणपूजा धूपादिनैवेद्यान्तेषु पूर्वोक्तधर्माणां प्राप्त्यर्थं पूर्व व दिति । धूपादिषु ये पूर्वोक्तधर्माः तद्धर्मकाः ते धूपादयः कार्या इत्यर्थः । ते च धर्माः धूपदीपनैवेद्येषु पूर्वमन्त्राः । मुद्रासु पूर्ववत्त्वं तर्पणे मूलमन्त्रः त्रिरभ्यासः इत्येवंरूपाः ज्ञेयाः । आदिपदेन ताम्बूलकर्पूरनीराजनादिमद्रव्यप्रज्वलनप्रभृतयो ग्राह्याः ॥
निबन्धकारः षोडश्युपासकः त्रिखण्डामपि प्रदर्शयेत् इत्युवाच । स बभ्राम, तथा व्यवस्थायाः सूत्रे अनुक्तत्वात् ॥
__त्रिखण्डाऽऽदिमुद्राणां स्वरूपम् अत्र संक्षोभिण्यादिमुद्राप्रदर्शनार्थ तत्कथंभावज्ञानस्यावश्यकत्वात् तन्मुद्रादर्शनप्रकारः सप्रमाणं संक्षेपेण कथ्यते । तत्रावाहने प्रथमं विनियुक्ता त्रिखण्डोच्यते । त्रिखण्डालक्षणमुक्तं वामकेश्वरतन्त्रे
परिवर्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ । अनामाऽन्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ।। कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ।
त्रिखण्डेयं समाख्याता त्रिपुराऽऽह्वानकर्मणि ॥ इति ॥ परिवर्तनं नाम हस्तद्वयाङ्गुळिमेळनम् । इदं सर्वत्राधिकाररूपं सदन्वेति । अङ्गुष्ठौ सरळौ परस्परस्पृष्टौ, तथैव कनिष्ठे मध्यमे च कुर्यात् । वामानामोपरि दक्षानामां तिर्यक् प्रसार्य तयोरधःप्रदेशात् तर्जनीद्वयमानीय कुटिलाकाराभ्यां तर्जनीभ्यां अनामाऽग्रद्वयं धारयेत् । अनामे अन्तर्गते ययोरिति विग्रहेण लब्धोऽर्थः । अस्या उक्तरीत्या निर्माणे खण्डत्रयं दृश्यते । उपरि सरळाङ्गुष्ठद्वययोगः । मध्ये तादृशमध्यमायोगः । अधश्च कनिष्ठायोगस्तादृशः । एवं सति पूर्वोक्तवामाज्येष्ठारौद्रीकलात्रयरूपमस्यां स्फुटम् । अत एव त्रयः खण्डाः कलाः यस्यां इति विग्रहेण त्रिखण्डेयम् । अत्र यद्यपि खण्डद्वयनिर्माणप्रकार उक्तः । मध्यमखण्डरचनाप्रकारो नोक्तः । तथाऽपि त्रिखण्डेति योगार्थसंपत्तये तन्त्रान्तरं शरणीकृत्य खण्डत्रयं संपादनीयम् । खण्डत्रयमुक्तं ज्ञानार्णवे
पाणिद्वयं महेशानि परिवर्तनयोगतः । योजयित्वा तर्जनीभ्यां अनामे धारयेत् प्रिये ॥