________________
१९२
परशुरामकल्पसूत्रम् तं गृहीत्वा प्रथममन्वाधानेऽग्निमाज्येन इति व्यवहरन्ति, न तु वह्निमाज्येनेति । यद्युत्पत्तिवाक्य एवेति नियमः, तत्र स्वेच्छया स्यात् । न च अस्य क्रमस्य उत्पत्तिवाक्ये “शक्तिचक्रैकनायिकायाः ललितायाः क्रममारभेत ” इत्यस्मिन् ललिताशब्दस्य श्रुतत्वात् तद्ग्रहणं इति निबन्धाभिप्रायः वर्णितुं शक्यः । तथा सति पूर्वसूत्रे ललिताया एव चतुर्षु स्थलेषु इति वक्तव्ये तमपहाय महादेव्या एवेति कथनस्य फलं ब्रह्मणाऽपि वक्तुं अशक्यम् । मन्मते तु ललितामहादेवीशब्दयोः एकार्थकत्वेऽपि यत्र विशेषो न श्रुतः तत्र ललिताशब्दप्रयोगः, यत्र श्रुतः तत्र श्रुतशब्दोच्चारणं अपूर्वजनकमिति ज्ञात्वा ललिताशब्दपरित्याग इति । फलं सङ्कल्पादौ श्रीललिताप्रीतये इति वक्तव्यम् । प्रकृते महादेवीशब्दस्य निरवकाशस्य प्रयोग उचितः । अत एवानया दिशा नवम्याः चक्रेश्वर्याः मन्त्रे महादेवीप्राप्तौ विशेषतश्चक्रेशीमिष्टुति तत्र श्रुतत्वात् महादेवीशब्दबाधः, “ सावकाशनिरवकाशयोः निरवकाशं बलीयः" इति न्यायात् । न च—एवं सति चतुर्पु मन्त्राभेदः प्रदर्शितः, इदानीं त्रिषु महादेवीघटितो मन्त्रः, एकत्र महाचक्रेश्वरीघटित इति मन्त्रभेदः पतितः, कथमेतत्-इति वाच्यम् ; निबन्धकारेणापि ललितामहाचक्रेश्वरीश्री० इति लिखितत्वेन अस्य दोषस्य उभयसाधारणत्वेनाचोद्यत्वात् । प्रत्युत निबन्धकारमन्त्रस्य ललितापदघटितत्वेन अस्त्यत्यन्तवैलक्षण्यम् । मन्मते देवीस्थाने चक्रेश्वरीमात्रप्रक्षेपे “एकदेशविकृतमनन्यवत्" इति वैय्याकरणपरिभाषामाश्रित्य निर्वाहो भविष्यतीत्यलमतिविस्तरेण ॥ ___ महादेवीशब्दनिरुक्तिर्देवीभागवते
बृहदस्य शरीरं यदप्रमेयं प्रमाणतः ।
धातुर्महेति पूजायां महादेवी ततः स्मृता ॥ इति ॥ वाग्भ वे न ऐं इत्यनेन, न प्रथमकूटेन, पूर्वाष्टमुद्राबीजेषु वर्णैकत्वदर्शनात् , तत्पङ्क्तिस्थस्यास्यापि तादृशत्वस्यावश्यकत्वात् । अतः ऐं इत्यस्यैव ग्रहणं युक्तम् ॥ १४ ॥
धूपादिदानम् एवं नवावरणपूजां विधाय अग्रे कर्तव्यक्रियाशेषमाहपूर्ववद्धूपदीपमुद्रातर्पणनैवेद्यादि दत्वा ॥ १५ ॥