________________
पञ्चमः खण्डः - ललितानवावरणपूजा
प्रासङ्गिकमुक्त्वा प्रकृतमाह
एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे । परिशिष्टं द्रष्टव्यम् । आवाहनीमुच्चार्य त्रिपुराम्बां संभाव्य स इति बीजमुद्राकृतिः ॥ १३ ॥
-
प रि शि ष्ट मित्यनन्तरं पूर्ववत् इति शेषः । आवाहनी तत्प्रकरणोद्धृता विद्या । संभाव्य पूजयित्वा । कृतिः कर्तव्येत्यर्थः ॥ १३ ॥
―
१.९.१
नवमावरणपूजा
नवमावरणपूजामाह
बिन्दुचक्रे मूलेन देवीमिष्ट्वा एषा परापररहस्ययोगिनी सर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहना सपरिवारा सर्वोपचारैः संपूजिताऽस्त्विति पुनर्मूलमुच्चार्य महाचक्रेश्वरीमिष्ट्वा वाग्भवेन योनिं प्रदर्श्य ॥ १४ ॥
अत्रापि निबन्धकारः मूलान्ते श्रीललिता श्रीपादुकां पूजयामि इति योजयामास । तदशुद्धम् । एतत्पूर्वसूत्रे " न तत्र मन्त्रदेवताभेदः कार्यः तन्महादेव्या एव चतुर्षु स्थलेषु ” इति वाक्ये स्थलचतुष्टयेऽपि महादेव्याः पूजनं इति कण्ठरवेणोक्तम् । श्रुत्या श्रुतशब्दं परित्यज्य अश्रुतशब्दस्य कल्पनं अशास्त्रीयम् । अन्यथा “ सौर्य चरुं निर्वपेद्ब्रह्मवर्चसकामः” इत्यस्मिन् यागे सूर्यपर्यायशब्दं प्रक्षिप्य " दिवाकराय जुष्टं निर्वपामि ” इति स्यात् । न च तत्र सूर्यशब्दः उत्पत्तिवाक्ये श्रुतः, इह तु पूर्वसूत्रं नोत्पत्तिवाक्यं, किं तु अभ्यासरूपगुणविधायकमिति वैषम्यं — इति वाच्यम् । नायमैकान्तिको नियमः, उत्पत्तिवाक्य एव श्रवणमपेक्षितमिति । नक्षत्रेष्टयुपहोमोत्पत्तिवाक्यं “ सोऽत्र जुहोति ” इत्येतावन्मात्रम् । नात्र देवतावाचकः शब्दः श्रूयते । तथाऽपि मन्त्रे–“ अग्नये स्वाहा. कृत्तिकाभ्यः स्वाहा " इत्यत्र श्रूयमाणो योऽम्यादिशब्दः