________________
परशुरामकल्पसूत्रम्
कामेश्वर्यादीनां मूलदेव्यभिन्नत्वम् ननु पञ्चदशनित्यानां मन्त्रेण मूलविद्यया चाभ्यर्च्य इति विहितं, प्रकृतेऽपि तुरीयदेवताया मूलेन पूजनमुक्तं, बिन्दुचक्रेऽपि वक्ष्यति मूलेन पूजनं, एवं चरमचक्रेश्वर्या अपि । एवं च एकमन्त्रकरणकत्वात् एकदेवताकं यागत्रयं अभ्यासरूपं वा भिन्नदेवताकं वा इति शङ्कायां देवतैक्यं प्रतिपादयति--
तिसृणामासामनन्तरमभेदाय मूलदेव्याः पूजा। कामेश्वर्यादिचतुर्थी नित्यानां षोडशी चक्रदेवीनां नवमी बिन्दुचक्रस्था चेत्येकैव । न तत्र मन्त्रदेवताभेदः कार्यः । तन्महादेव्या एव । चतुर्ष
स्थलेषु विशेषार्चनमावर्तते ॥ १२ ॥ - आसां कामेश्वर्यादीनां ति सृ णा म नन्तरं आसां मूलदेव्यभिन्नत्वप्रतिपादनाय मूल दे व्याः पूजा । एवं स्थलान्तरेऽपि त्रिपुरसुन्दर्या अन्ते पूजनं तत्र तत्र स्वस्वपूर्वदेवताकूटाभेदं ज्ञापयति । इममेवार्थ स्पष्टं दर्शयति—का मे श्वरी ति । प्रकृतचक्रे कामेश्वर्यादिभ्यः परं चतुर्थी, पञ्चदशनित्याभ्यः परं षोडशी, अष्टचक्रात् परं नवमे बिन्दौ सैव चकारसूचिता, पुनर्बिन्दावेव अष्टचक्रेशीपूजाऽनन्तरं चक्रेशीत्वेन पूज्या एकैव । तत्र एषु स्थलेषु देव ता भेदः मन्त्र भे दश्च नास्ति । इत्थं च नित्याः समस्तावरणदेव्यश्च त्रिपुरसुन्दर्या अव्यतिरिक्ता इति ज्ञापयितुं तत्तदन्ते उक्तं इति भावः। ननु देवतैक्ये द्रव्यैक्ये मन्क्ये सकृदेव पूजनं युक्तं, किमिति पूजात्रयं, अत आह—च तु षु स्थ ले षु वि शेषा र्च न मा वर्त ते इति । दर्शितचतु:स्थलेष्वित्यर्थः । तथा च यागैक्येऽपि तदभ्यासस्यापूर्वसाधनत्वेनावश्यकत्वादिति भावः । न चाभ्यासे सति यथा प्रोक्षणमन्त्रो नावर्तते तथा मन्त्रावृत्तिर्न स्यात् इति वाच्यम् ; क्रियाऽन्तरव्यवधाने अभ्यासेऽपि मन्त्रावृत्तेः अमिहोत्रादौ दृष्टत्वात् । तथाऽत्रापि क्रियाऽभ्यासरूपत्वेऽपि स्वविजातीयक्रियाऽन्तरव्यवधानाद्युक्ता मन्त्रावृत्तिः ॥ १२ ॥