________________
पञ्चमः खण्डः–ललितानवावरण पूजा
अष्टमावरणपूजा
अष्टमावरणपूजामाह
त्रिकोणे वाक्कामशक्तिसमस्तपूर्वाः कामेश्वरीवश्वरीभगमालिनीमहादेव्यः बिन्दौ चतुर्थी ॥ ११ ॥
१८९
या परशिवरूपदीपस्य प्रकाशरूपा परा शक्तिः सा सृष्ट्युन्मुखा त्रिधा जाता वामा ज्येष्ठा रौद्री चेति । क्रमात् रजस्सत्वतमः प्रधानाः ताः । तासां समष्टिवाचकं पदं तन्त्रशास्त्रे अम्बिकेति । इमा एव क्रमात् इच्छाज्ञानक्रियाशक्तयः इत्युच्यन्ते । अमूषां त्रिपुरसुन्दरीव्यष्टिरूपत्वं ज्ञापयितुमेव योगिनीषु अतिरहस्येति विशेषणं अग्रे दत्तवान् । अत्र वाग्भ व पदेन प्रथमकूटं ग्राह्यम्, का म पदेन द्वितीयकूटं, शक्ति पदेन तृतीयकूटं, न तु बालावर्णाः, वामकेश्वरतन्त्रे कूटानामेव परिगृहीतत्वात् । यद्यपि तन्त्रान्तरे “ वाग्भवं चाद्यकूटं च " इति समुच्चयोऽपि द्वयोर्दृश्यते, तथाऽपि अत्र वागादीनामेवोक्तत्वात् योगिनीतन्त्रानुसारेण कूटमात्रग्रहणम् । समस्तं कूटत्रयम् । इमानि पूर्व यासां नाम्नां ताः चतस्रः त्रिकोणे त्रिकोणकोणत्रये बिन्दौ च पूज्या इत्यर्थः ॥
निबन्धकारः चतुर्थदेवताया मन्त्रे समष्टिमूलानन्तरं ललिताश्री० इति लिलेरव । तत्तुच्छम् । कामेश्वरी वज्रेश्वरी भ ग मालिनी महादेव्यः इति सूत्रे क्रमेण चतसृणां देवतानां नामसु सत्सु शास्त्रप्रसिद्धं परित्यज्य स्वकपोलकल्पितं ललितेति नाम मन्त्रे प्रवेशयामास । अत्र शास्त्रं न प्रमाणम् । अचिन्त्यशक्तिमन्त्रेष्वपि स्वेच्छाप्रवृत्तिशीलो यः तद्वचनं महान्तोऽपि विश्वसन्ति । अत्र मूलं श्रीभगवन्मायासमुत्पन्नालस्यमेव नान्यत् । न च – महादेवीपर्याय एव ललिताशब्दः, तत्प्रयोगे किं बाधकं — इति वाच्यम् । “ अग्निमीळे ” इति मन्त्रे वह्निमीळ इत्यपि प्रयोगेनापूर्व स्यात् । इत्यलमसदावेशेन ॥
क्रमस्तु वामकेश्वरतन्त्रे—
कामेश्वमग्रकोणे वज्रेशीं दक्षिणे ततः ।
भगमालिनीं तथा वामे मध्ये त्रिपुरसुन्दरीम् ॥ इति ॥ ११ ॥