________________
१८८
परशुरामकल्पसूत्रम् ऽप्यधिकम् । इत्थं च यस्मिन् पुस्तके धनुर्मन्त्रे केवलधमित्यस्ति तत् थं इत्यस्याप्युपलक्षक, तृतीयमन्त्रे ह्रीमिति आमित्यस्याप्युपलक्षकं, तस्य शिवपाशरूपत्वात् , " आद्यन्तगो महापाशः पौरुषेयः प्रकीर्तितः” इति वामकेश्वरतन्त्रात् । एतदर्थोऽपि प्राक् नीलपताकामन्त्रोद्धारे वर्णितः । अङ्कुशबीजं तु उभयोरेकं " कामोऽग्निा पकोड़कुशः” इत्यविशेषेण योगिनीतन्त्रपाठात् । तस्य तन्त्रेण सकृदेव पाठः । इत्थं च मन्त्रस्वरूपं यां रां लां वां सां द्रां द्रीं क्लीं ब्लू सः सर्वजृमणेभ्यो बाणेभ्यो नमः 'बाणश्रीपादुकां पूजयामि । थं धं सर्वसंमोहनाय धनुषे नमः धनु:श्रीपादुकां पूजयामि । ह्रीं आं सर्ववशीकरणाय पाशाय नमः पाशश्री० । क्रों सर्वस्तम्भनायाङ्कुशाय नमः अङ्कुशश्री' इति । शक्तिबीजानां प्राथम्ये तत्प्राधान्यं गमकम् ॥
केचित्तु तन्त्रानुयायिनः दशबीजान्युच्चार्य कामेश्वरकामेश्वरीबाणेभ्यो नमः इति पठन्ति । तदतीवाशुद्धम् । कामेश्वरी च कामेश्वरश्चेति द्वन्द्वापवादकत्वात् " पुमान् स्त्रिया" इत्येकशेषः स्यात् न द्वन्द्वः ॥
म हा त्र्य श्रं आद्यत्रिकोणं तस्य बाह्य तः अष्टाश्रव्यश्रमध्ये दिक्षु पश्चिमादिप्रादक्षिण्येन । तदुक्तं वामकेश्वरतन्त्रे
पश्चिमोत्तरपूर्वाशा दक्षिणाशा क्रमेण तु । इति ॥
अत्र निबन्धे आयुधमन्त्रेषु श्रीपादुकामिति शेषयोजनाभावे मूलं स एव प्रष्टव्यः ॥
_____न च–अष्टाक्षरीप्रापकं सर्वत्र देवतानामसु श्रीपूर्वकं पादुकामित्यादिवाक्यं तत्र देवतानामस्वित्यनेन यत्र नाम देवताया गृह्यते तत्रैवाष्टाक्षरी नान्यत्र । प्रकृते विधायकवाक्ये बाणादिरूपनामग्रहणाभावात् न तथा—इति वाच्यम् । देवतानामस्वित्यस्य देवतानामघटितमन्त्रेष्विति निबन्धकारेणाप्यवश्यं वाच्यम् । अन्यथा
ओघत्रये तद्योगः तत्त्वतो विरुध्यते । तत्र विधिवाक्ये देवतानामग्रहणं नास्ति, किं त्वोधत्रयमेवास्ति । तस्मान्न किंचिदेतत् ॥ १० ॥
. 'बाणशक्तिश्री-श्री.