________________
१८७
पञ्चमः खण्डः-ललितानवावरणपूजा न च-निबन्धकारः शिवबाणबीजान्युल्लिखन् बभ्रामेत्यास्ताम् । परं तु ललिताप्रकरणस्थत्वात् शक्तिबाणबीजानामेवात्र ग्रहणम् , बाणबीजान्युच्चार्य इति कल्पसूत्रेणाविशेषेण श्रुतस्यापि प्रकरणेन सङ्कोचस्य “ आग्नेय्याऽऽमीध्रमुपतिष्ठते" इत्यादौ दृष्टत्वात् इति वाच्यम् ;
कामबाणान् महेशानि धनुस्तत्पाशमेव च ।
चक्रमध्ये चतु:कोणे क्रमेण परिपूजयेत् ॥ इति वामकेश्वरतन्त्रवचनेन तेषां शिवायुधानामपि ललिताप्रकरणे पूजनं विहितम् , प्रकृते कल्पसूत्रे बाणबीजान्युच्चार्येति अविशेषेण श्रुतस्य प्रकरणेन सङ्कोचे कर्तव्ये ततोऽपि बलवता वाक्यान्तरेण श्रूयमाणार्थस्यैव व्यवस्थापनात् । “ आग्नेय्याऽऽमीध्रमुपतिष्ठते' इत्यत्र प्रकरणबाधकं वचनान्तरं नास्तीति वैषम्यम् ॥
न च तन्त्रान्तराश्रयणं न क्रियत इति प्रतिज्ञाहानिः, सूत्रार्थनिर्णयाय वचनान्तरानुसरणे प्रतिज्ञायामनुपपत्त्यभावात् ॥
किं च, बहुषु पुस्तकेषु कल्पसूत्रपाठः “धं थं सर्वसंमोहनाय धनुषे नमः, आं ही सर्ववशीकरणाय पाशाय नमः" इति, अयमपि बाणद्वयग्रहणे लिङ्गम् । अन्यथा धनुर्बाणयोरुभयसंबन्धिनोः ग्रहणसूचकं बीजद्वयं किमिति पठेत् । दृश्यते च बहुषु पुस्तकेप्वयमेव पाठः । तस्मादुभयपूजनमावश्यकम् । यदि च केषुचित्पुस्तकेषु बीजद्वयपाठस्यादर्शनात् निश्शकं परमतसिद्धिरिति विभाव्यते, तदाऽपि सर्वपुस्तकेष्वविवादेन धं इति धनुर्मन्त्रे शिवधनुर्बीजमस्ति, “तुरीयमरुणावर्गात् द्वितीयमपि पार्वति । पुंस्त्रीकोदण्डयुगळम्" इति वामकेश्वरतन्त्रात् । अस्यार्थः-अरुणावर्गस्तवर्गः, तत्र तुरीयो धकारः द्वितीयः थकारः क्रमेण पुंस्त्रीधनुषी इत्यर्थः । अनेन ·धं इति शिवधनुर्बीजं सिद्धम् । एवं पाशे ह्रीं इत्यविवादेन सर्वपुस्तकेष्वस्ति । तच्च शक्तिपाशबीजं, “माया स्त्रीपाश उच्यते" इति योगिनीतन्त्रवचनात् । एवं कचित् पुमायुधबीजकथनं, क्वचित् स्त्र्यायुधबीजकथनं, प्रग्रथनरूपं आयुधद्वयग्रहणे सर्वपुस्तकसाधारणं लिङ्गम् । तन्त्रान्तरवचनं च स्पष्टरूपं लिखितं प्राक । एकवचनगतिः दर्शिता । अतो विरोधाभावादायुधद्वयमत्र पूज्यमिति ममासंशयं प्रतिभाति । धर्मस्यातीन्द्रियत्वात् साधवः सुधियः परिशीलयन्तु इतो