________________
१८६
परशुरामकल्पसूत्रम् अस्यार्थः-त्वक यकारः " त्वग्वाली व्यापको वायुः” इति कोशात् । असृग्रेफः “रो रक्तः क्रोधिनी रेफः” इति कोशात् । मांसं लकारः “ पिनाकी मांससंज्ञिकः” इति कोशात् । मेदो वकारः " वो मेदो वरुणः सूक्ष्मः" इति कोशात् । अस्थिमज्जान्ते चरमदेशे स्थितं शुक्रं तद्वर्णः सकारः “ दशपादो भृगुः शुक्र इति" कोशात् । यद्वा-अस्थिमज्जार्गौ शषौ, “शङ्कुकर्णास्थिसंज्ञश्च शकारो विद्भिरीरितः" इति, तथा " वृषः श्वेतेश्वरः पीतो मज्जा" इति षकाराधिकारे च कोशात् । तयोरन्ते वर्तमानः स इत्यर्थः । उक्ताः वर्णाः द्वितीयस्वरसंयुक्ताः, आकारेण युक्ताः, बीजरूपत्वात् बिन्दुयोगोऽपि । इत्थं च यां रां लां वां सां इति देव्या बाणबीजानि । उक्तवर्णेषु बिन्दुयोगस्तन्त्रान्तरे- " सर्वेऽन्तस्थास्तृतीयोष्मा बिन्द्वनन्तसमन्विताः” । यरलवा अन्तस्थाः, तृतीयोष्मा सकारः, अनन्त आकारः । अत्र बाणबीजपदेन सर्वेषां ग्रहणम् , सेतुबन्धे यां रां लां वां सां सर्वजम्भणेभ्यः कामेश्वरी बा णे भ्यो न मः, द्रां द्रीं क्लीं ब्लू सः सर्वजृम्भणेभ्यः कामेश्वरबाणेभ्यो नमः इति मन्त्रद्वयं लिखित्वा, अग्रे " इदं च कल्पसूत्रानुगुण्येनोक्तं” इति लिखित्वा, " वस्तुतस्तु स्वतन्त्रानुसारेण आदौ द्वितारी ततो दशबाणबीजान्युच्चार्य सर्वशृंभणबाणशक्तिश्रीपादुकां पूजयामि" इति लेखात् ॥
निबन्धे तु कामेश्वरबाणबीजमात्रं लिखित्वा सर्वजम्भणेभ्यो बाणेभ्यो नमः इति मन्त्रस्वरूपं लिखितम् । तत्र बाणबीजत्वस्योभयसाधारणत्वेन बाणबीजान्युच्चार्यत्यनेन शिवबाणानामेवोच्चारणं न देव्या इति भगवतो रामस्याभिप्रायनिष्कासने प्रमाणगन्धस्याप्यभावात् , प्रत्युत स्थूलमानेन विचार्यमाणे ललितोपास्तेः उपक्रान्तत्वात् तदीयबाणपूजनमेव युक्तम् । तानपहाय केवलशिवबाणानेव लिलेख । तदीयं साहसं महत्तरम् ॥
न च तथा सति उत्तरमन्त्रेषु धनुषे पाशायाङ्कुशायेत्येकवचनमनुपपन्नं इति वाच्यम् ; पाशाधिकरणन्यायेनोपपत्तिसंभवात् । यद्वा-बीजदशकमुच्चार्य सर्वजृम्भणेभ्यो बाणेभ्यो नमः इति द्वयोः तन्त्रेणैव पूजनम् । देवतात्वं चामीषोमवद्वयासक्तम् । इत्थमेव पाशादिषु । एवं च "आशासाना मेधपतये मेधम्" इतिवत् धनुर्द्वयनिष्ठदेवतात्वस्य व्यासक्तत्वात् , देवतात्वावच्छिन्नस्यैकत्वात् , तदभिप्रायेणैकवचनोपपत्तिः । बाणपदोत्तरं बहुवचनं च देवतात्वाधिष्ठानान्वयीति " मेधपतिभ्यां मेधं" इतिवत् न काऽप्यनुपपत्तिः ॥