________________
तदुक्तं मालिनीतन्त्रे
पञ्चम: खण्ड:
बाणबीजानि संक्षोभिण्यादिपञ्चमुद्राबीजानि 'कामेश्वरबाणानां बीजानि ।
1
–ललितानवावरणपूजा
थान्तद्वयं समालिख्य वह्निसंस्थं क्रमेण तु । मुखवृत्तेन नेत्रेण बिन्दुना परिभूषितम् ॥ बाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् । चतुर्थस्वरबिन्द्वाढ्यं नादरूपं वरानने ॥ फान्तं चक्रेण संयुक्तं वामकर्णविभूषितम् ॥ बिन्दुनादसमायुक्तं सर्गवान् चन्द्रमाः प्रिये ॥ पञ्च बाणानिमान् विद्धि मामकान् प्राणवल्लभे ॥ इति ॥ अस्यार्थः -- थान्तः मातृकाक्रमे थकाराग्रिमो दकारः तस्य द्वयं लिखित्वा तयोर्मध्ये प्रथमदकारं वह्निना रेफेण संस्थं युक्तं, मुखवृत्तमाकारः, मातृकान्यासे तस्य तत्स्थानत्वात् । बिन्दुश्च ताभ्यां सहितः । द्रामिति संपन्नम् । द्वितीयदकारेऽपि वह्निसंस्थत्वं तलनं तदनन्तरं नेत्रेण वामनेत्रेण ईकारेण, मातृकान्यासे तत्स्थानत्वात्, बिन्दुना च समन्वितं द्रीमिति संपन्नम् । एवं संपन्नबीजद्वयं बाणद्वयं भवति । आद्यबाणद्वयबीजं भवति । एवं मादनं ककारः भूमिः लकारः तस्मिन् संस्थितं— अधो लकारः उपरि ककारः इति भावः - चतुर्थस्वर ईकार: बिन्दुः प्रसिद्धः ताभ्यां आढ्यं युक्तम्, क्लीमिति संपन्नम् । फान्तं बकारः, व्युत्पत्तिः थान्तवत्, चक्रेण लकारेण युक्तं वामकर्ण ऊकारः तेन बिन्दुना च युक्तं, ब्लूमिति संपन्नम् । सर्गो विसर्गः तद्वान् चन्द्रमाः सकारः स इति । एवं च द्रां द्रीं क्लीं ब्लूं सः इति पञ्च मामकान् बाणान् विद्धीत्यर्थः । कामेश्वरीबाणबीजानि योगिनीतन्त्रे-
त्वगसृङ्मांसमेदोऽस्थिमज्जार्णान्ताः सुरेश्वरि । द्वितीयस्वरसंयुक्ता एते वाणास्तदीयकाः ॥ इति ॥
इत्यधिकः– ब.
24
१८५
तदुक्तं कुलसारे
संक्षोभिण्यादिमुद्राणां यानि वीजानि पञ्च वै । तानि सर्वाणि देवेशि शरादौ संप्रकीर्तयेत् ॥ इति ॥
2 शक्रेण श्री.