________________
१८४
परशुरामकल्पसूत्रम् मूर्तिविद्यामुच्चार्य त्रिपुरासिद्धामाराध्य शिवभृगुऋद्धियुक्फ्रें इति खेचरी देया ॥ ९॥
योगिनीन्यासप्रकरणे ये वशिन्यादीनामष्टौ मन्त्रा उद्धृताः तेषु नमःपदस्थाने पूजामन्त्रस्य श्रीपादुकेति मन्त्रस्य सन्नाम ऊहः कार्यः । चतुर्थीसहितनमःपदस्थाने पूजामन्त्रः कार्य इत्यर्थः, अन्यथा 'चतुर्थीश्रवणापत्तेः ॥
न च नमःपदनिवृत्तौ तद्योगनिमित्तचतुर्थ्यपि निवर्तते " निमित्तापाये नैमित्तिकापायः” इति न्यायात् इति–वाच्यम् । न हि चतुर्थीसत्त्वे नमःपदं निमित्तम् , किं तु तदुत्पत्तौ । तथा च नमःपदं निमित्तीकृत्योत्पन्ना या चतुर्थी तस्या निवर्तकपर्यन्तं स्थितौ बाधकाभावात् ॥
न चचतुर्युत्पत्तेः प्रागेव नमःपदं निवर्तताम् , तथा सत्युत्पादकाभावात् न चतुर्थी इति—वाच्यम् । न्यासमन्त्रस्य पूजामन्त्रप्रकृतित्वे सिद्धे प्रकृतितोऽतिदेशेन चतुर्थीनम:पदसहितप्राप्तौ नम:पदं युक्तविन्यासेनोहेन बाधितं, चतुर्थी केन बाध्यताम् । श्रौते प्रकृतितोऽग्निपदसहितनिपिमन्त्रस्य प्राप्तौ सूर्ययागे अर्थबाधात् अग्निपदमात्रस्य सूर्यपदेन बाधः न चतुर्थ्याः । तथाऽत्रापि । तस्मात् चतुर्थीसहितनमःपदबाधकः पूजामन्त्रः । शेषं गतप्रायम् ॥
मूर्ति विद्या मूर्तिकल्पनमन्त्रः आवाहनप्रकरणे उक्तः । शि वो हकारः भृगुः सकारः ऋद्धिः खकारः । अत्र प्रमाणानि प्राक् दर्शितानि । तैर्युक्तः फे मिति वर्णः ह्लफ्रें इति । इममुच्चार्य खे च रौं दर्शयेदित्यर्थः ॥ ९ ॥
आयुधपूजा
आयुधपूजामाह
बाणबीजान्युच्चार्य सर्वāभणेभ्यो बाणेभ्यो नमः धं थं सर्वसंमोहनाय धनुषे आं ह्रीं सर्ववशीकरणाय पाशाय क्रों सर्वस्तंभनायाङ्कुशाय नमः इति महाव्यश्रबाह्यचतुर्दिक्षु बाणाद्यायुधपूजा ॥१०॥ 1 चतुर्थीपूर्व श्रूयमाणा या तस्याः बाधकाभावेन तच्छ्रवणं स्यात्-अ. श्री.