________________
२०२
परशुरामकल्पसूत्रम् पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ॥ इति ब्रह्माण्डपुराणोक्तजपसङ्ख्या ज्ञेया। अयं जपः कर्माङ्गभूतः, अङ्गैरुभयतः सन्दंशात् । यद्वा
आवृत्तिर्गुरुनित्याऽर्चा समयाम्नाययोरपि । पूजात्रयं जपश्चैव प्रधानं पूजने मतम् ॥
इति स्वतन्त्रतन्त्रे त्रयोदशोल्लासे जपम्य प्राधान्यकथनात् , प्रत्यक्षवचनेन कथनस्य सर्वबाधकत्वात् ॥
स्तोत्रा णि, गणेशग्रहनक्षत्रेत्यादिवामकेश्वरतन्त्रोक्तानि, सहस्रनामपाठः, अपराधस्तुतिः, सत्यवकाशे सप्तशतीपाठोऽपि, “ ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः” इति तत्रैव विहितत्वात् । एवमादिभिः सन्तो प्य ॥ २० ॥
शक्तिपूजा अथ शक्तिपूजामाह
तद्रूपिणीमेकां शक्तिं बालयोपचारैः संपूज्य तां मपञ्चकेन सन्तर्प्य ॥ २१ ॥
त द्रू पिणी त्रिपुरसुन्दरीरूपिणी एकवचनेन एका मित्यनेन अद्वितीयां सौन्दर्येणेत्यर्थः प्रतिपाद्यते । एतेन तन्त्रान्तरोक्तशक्तिलक्षणानि सूचितानि । बा ल या मन्त्रेण उप चारैः यथासंभवैः । म पञ्च के न सन्त र्पणं तस्याः इच्छायां सत्यां ज्ञेयम् । अयं भावः सन्तयेत्यनेन ज्ञापितः । तर्पणं तृप्तिसंपादनं तत् शक्तिनिष्ठतत्तद्विषयकेच्छानिवर्तको व्यापारः । तस्या इच्छायामसत्यां तन्निवर्तकव्यापारस्यापि असंभवात् इच्छायामेव इति सिध्यति । अन्यथा “ मपञ्चकैरुपचारैश्च पूजयेत्" इत्येव वदेत् । तस्मादयमर्थः सिद्धः । शक्तिलक्षणानि कुलार्णवे
सुरूपा तरुणी शान्ताऽनुकूला मुदिता शुचिः । शङ्काहीना भक्तियुक्ता गुरुशास्त्रपरायणा ॥