________________
पञ्चमः खण्डः - ललितानवावरणपूजा
1
नित्या क ळे ति वर्णसमुदायः अन्ते यन्नान्नः इति व्युत्पत्त्या बुद्ध्याकर्षिण्यादिपञ्चदशस्वपि इदं विशेषणमनुषज्य योज्यम् । सर्वत्र पुंवद्भावो नास्ति, प्रथममन्त्रपाठानुरोधात् । श्रीपादुकेत्यादिशेषः पूर्ववत् । षोडशपत्रे क्रमस्तु वामकेश्वरतन्त्रे – “ षोडशारे महादेवीं वामावर्तेन पूजयेत्” इति । तत्राप्यारंभः कस्माद्दळादारभ्य कर्तव्य इति विशेषजिज्ञासायां देव्यग्रकोणमारभ्येति सेतुबन्धे स्थितम् । योगिनीचक्रयोः प्रकृतमन्त्रप्रवेशार्थं नामनी आह— एता गुप्त योगिन्य इति, भूपुरापेक्षया षोडशदलस्य अन्तःस्थत्वेन तत्रस्था योगिन्यः गुप्ताः । “ शिष्टं समानं " इति पूर्वसूत्रेणैव प्राप्तमर्थ अनुवदति समुद्रा इत्यनेन । अनुवादफलं च तदर्थकानां पदान्तराणां मन्त्रे प्रक्षेपो मा भवत्वित्येतदर्थम् । पूर्ववत् पूर्वं यथोच्चरितं तथैवेत्यर्थः । आत्म रक्षा तन्मन्त्रः । शेषं स्पष्टम् ॥ ४ ॥
तृतीयावरणपूजा
,
तृतीयावरणपूजामाह
दिक्पत्रे कुसुमामेखलामदनामदनातुरारेखावेगिन्यङ्कुशामालिनीरनङ्गपूर्वाः संमृश्यैता गुप्ततरयोगिन्यः सर्वसंक्षोभणचक्रे समुद्रा इत्यादि पूर्ववदात्मासनमुच्चार्य त्रिपुरसुन्दरीमिष्ट्वा क्लीमिति सर्वाकर्षिणीमुद्रां प्रदर्शयेत् ॥ ५ ॥
१८१
अत्र दिक् पदमष्टसंख्या लक्षकं, दिक्षु अष्टसंख्यायाः सत्त्वात् । तथा च दिग्वृत्तिसंख्यानि पत्राणि यस्मिन्निति व्युत्पत्त्या तृतीयचक्रपरम् । दिक्ष्वष्टसंख्या च अवान्तरदिशो गृहीत्वा, “ चतस्रो दिशश्चतस्रोऽवान्तरदिशाः” इति श्रुतेः । अवान्तरदिक्ष्वपि " अधिकं तु प्रविष्टं न तद्धानिः " इति न्यायेन दिक्त्वमबाधितम् । अनङ्ग इति पूर्वं यासां कुसुमादीनां देवतानां नामादौ ता देवता अनङ्ग पूर्वाः । अत्रान्यपदार्थो देव्यः, न कुसुमादिवर्णसमुदायः, संमृ श्येत्यस्यानन्वयापत्तेः । एतद्देवतापूजाक्रमश्च योगिनीतन्त्रे