________________
१८०
परशुरामकल्पसूत्रम् ___अत्र क र शुद्धि पदेन करशुद्धिन्यासाङ्गभूतो मन्त्रः न्यासप्रकरणोक्तः तं उच्चार्य । त्रि पुरे ति त्रैलोक्यमोहनचक्रस्य नायिका । त्रि पुरा चासौ च क्रेश्वरी चेति कर्मधारयः । त्रिपुरेत्यत्र पुंवद्भावाभाव आर्षः । ईदृशीं चक्रेश्वरीं अवमृश्य संपूज्य । अत्रापि पूजारूपत्वात् श्रीपादुकेति मन्त्रशेषोऽस्ति । परं तु समष्टयर्चने श्रीपादुकामिति मन्त्रशेषो नास्ति, ‘इति समष्टयर्चनं विधाय' इत्यत्र इतिशब्देन शेषव्यवच्छेदात् । द्रां इ ति सर्वसंक्षोभिणीमुद्राबीजं तां पठित्वा सर्व सं क्षोभिणी मुद्रां अङ्गुळिप्रग्रथनरूपां वक्ष्यमाणरीत्या प्रदर्श येत् । देव्या इति शेषः । एवं वक्ष्यमाणरीत्या देव्यग्रभागे अङ्गुलिषु ग्रथितेषु तस्याः दशितं भवति। एवमग्रिमेप्ववगन्तव्यम् । एवं प्रकृते समष्टयर्चनमन्त्रं प्रकृतचक्रेश्याश्च मन्त्रमुक्त्वा अग्रिमसमष्टयर्चनमन्त्रे चक्रेशीमन्त्रे च केषांचित् वर्णानां पर्युदासपूर्वकं कांश्चिद्वर्णानतिदिशति—च के ति । चक्रनामानि सर्वाशापरिपूरकेत्यादीनि, यो गिनी नां ना मा नि गुप्तेत्यादीनि, च के शी नां त्रिपुरेत्यादीनि, यानि नामानि तद्वर्णाभिन्नानि । समुद्रा इत्यादिवर्णकूटं स मा न म् । अनेन तत्तत्प्रकरणे उक्तचक्रादिनामस्थाने वक्ष्यमाणनामानि पठनीयानीति भावः ॥ ३ ॥
द्वितीयावरणपूजा अथ द्वितीयावरणपूजामाह
षोडशपत्रे कामाकर्षिणी नित्याकळेति नित्याकळाऽन्ताः बुद्धयाकर्षिणी-अहंकाराकर्षिणी-शब्दाकर्षिणी - स्पर्शाकर्षिणी - रूपाकर्षिणी - रसाकर्षिणी - गन्धाकर्षिणी - चित्ताकर्षिणी- धैर्याकर्षिणी - स्मृत्या - कर्षिणी-नामाकर्षिणी-बीजाकर्षिणी-आत्माकर्षिणीअमृताकर्षिणी - शरीराकर्षिणी - एता गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्रा इत्यादि पूर्ववत्
आत्मरक्षामुच्चार्य त्रिपुरेशीमिष्ट्वा द्रीं इति सर्वविद्राविणीं प्रदर्शयेत् ॥ ४॥