________________
१७९
पञ्चमः खण्डः-ललितानवावरणपूजा उक्तयोगिनीषु प्रकट त्वं च शिवादिषट्त्रिंशत्तत्त्वानां मध्ये या स्थूला पृथिवी तद्रूपे भूपुरे चतुरश्रे वर्तमानत्वात् । तदुक्तं नित्याहृदये
तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने । योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रथात्मनि ॥
स्थितत्वात् . . . . . . . . ॥ इति ॥ त्रैलोक्य मोह न मि ति 'योगरूढिभ्यां चतुरश्रत्रयात्मकं सर्वबाह्यं यच्चक्रं तस्य नाम । स मुद्रा इति—पूर्व विस्तरेण दश याः प्रतिपादिताः तास्वेकैका मुद्रा एकैकचक्रेऽस्ति । दशमी त्रिखण्डा सर्वव्यापिका । अस्मिन्नर्थे प्रमाणं योगिनीतन्त्रेऽस्ति । श्रीभगवान् परशुरामोऽपि तत्तच्चक्रपूजायां एकैकमुद्राप्रदर्शनं वक्ष्यति । एवं च यस्मिन् या मुद्राऽस्ति तया सहिता इत्यर्थः । स सिद्ध य इति—अत्र सिद्धिर्नाम तत्तच्छक्तिसाध्यं फलम् । तच्च स्वाकारेण सूक्ष्मरूपेण तिष्ठत्येवेति शक्तयोऽपि ससिद्धयः । सा युधा इति स्पष्टम् । स शक्त यः-अत्र शक्तिपदेन अणिमाऽऽदिनिष्ठा या तत्तत्कार्यजनकता तदवच्छेदको यो धर्मः स ग्राह्यः । न हि कारणता निरवच्छिन्ना लोके प्रसिद्धा । अतः स्वनिष्ठकारणतायां अवच्छेदकं किं चिदभ्युपगन्तव्यम् । अभ्युपगतं च यद्रूपं तत् अधिष्ठानादन्यन्न वेत्यन्यदेतत् । तादृशशक्त्या सहिताः । स वा ह ना इति स्पष्टम् । परिवारा अनुचराः तैः सहिताः । शेषो मन्त्रार्थः स्पष्टः । तासामणिमाऽऽदित्रिखण्डाऽन्तानां स मष्टय र्चनं समुदायनामघटितमन्त्रेणार्चनं विधाय । अत्र मन्त्रगतलिङ्गेन प्रार्थनाङ्गत्वं प्रतीयते, लोश्रवणात् “प्रार्थनेषु लिङ् लोट् च " इति पाणिनिस्मृतेः । तथाऽपि “ ममाग्ने वर्षो विहवेष्वस्तु" इति मन्त्रस्य “ विहव्या उपदधाति" इति श्रुत्या लिङ्गं बाधित्वा उपधानाङ्गत्ववत् अर्चनाङ्गत्वं बोध्यम् । संपू जि ताः सन्तु इति समष्टय र्चनं कृत्वा इत्यनेन अर्चनाङ्गत्वे प्रतीयमाने दुर्बलं लोट्श्रवणं न बाधकं भवति ॥ २ ॥
करशुद्धिमुच्चार्य त्रिपुराचक्रेश्वरीमवमृश्य द्रामिति सर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् । चक्रयोगिनीच- । क्रेशीनां नामानि भिन्नानि । शिष्टं समानम् ॥३॥ 1 योगरूढिशक्त्या भूसदनात्मकचतुरश्ररेखात्रयस्य नाम-ब.