________________
१७८
परशुरामकल्पसूत्रम् आविर्भूतानन्दान्तर्भावेण विवक्षायां कलेत्युच्यते । ईदृशकलारूपा योनिमुद्रा ।। तदुक्तं नित्याहृदये
संपूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ।
योनिमुद्रा कलारूपा . . . . . . . ॥ इति ॥ सर्ववश्यकरी केवलबिन्दुद्वयरूपा, अस्याः शरीरे बिन्दुद्वयसंसर्गाविर्भूतानन्दोऽपि शक्यताऽवच्छेदककोटिप्रविष्ट इति ततो वैलक्षण्यं ज्ञेयम् । दशमी त्रि ख ण्डा पूर्वमुक्ता । एवं दशमुद्राणां स्वरूपं श्रीगुरुकृपाविशेषेणाविर्भूतस्फूर्तिकं यथामति लोकानां सुखबोधार्थ स्पष्टीचकार । एवं स्वरूपज्ञानफलं तन्त्रेषु अनन्तं प्रपञ्चितं, विस्तरभयान्नेह लिखितम् । एवं दशमुद्राश्चतुरश्रे तृतीये पूज्याः । अत्रापि इच्छया प्राप्तौ नियामकं वचनं तन्त्रे
पुरस्सव्ये च वंशे च वामे चैवान्तराळके ।
ऊर्ध्वाधो दशमुद्राश्च . . . . . . ॥ इति ॥ पूर्वदक्षिणपश्चिमोत्तरेष्वाग्नेयाद्यन्तराळचतुष्के चोर्ध्वमधश्च दशमुद्राः पूज्या इति तदर्थः ॥ १ ॥
प्रथमावरणसमष्टिपूजा प्रथमावरणस्य व्यष्टिपूजामुक्त्वा समष्टिपूजामाह
एताः प्रकटयोगिन्यस्त्रैलोक्यमोहनचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्विति तासामेव समष्टयर्चनं कृत्वा ॥२॥
ए ताः अणिमाऽऽदित्रिखण्डाऽन्ताः । प्रकट यो गिन्य इति तासामेव समष्टिनाम, यथा चैत्रो मैत्र इत्यादिप्रत्येकनामवतामपि मनुष्य इति समष्टिनाम तद्वत् ।
1 'कलापदशक्यताऽवच्छेदककोटौ आनन्दस्याधिकस्य निवेश इति विशेषः' इत्यधिक:-ब,