________________
पञ्चमः खण्डः – ललितानवावरणपूजा
धर्माधर्मस्य संघट्टादुत्थिता वित्तिरूपिणी । विकल्पोत्थक्रियालोपरूपदोष [ ? ] विघातिनी । विकल्परूपरोगाणां हारिणी खेचरी मता ॥ इति ॥ अस्यार्थः धर्मः शक्तिः परशिववृत्तित्वात् । न विद्यते धर्मों यत्रेति अधर्मः परं ब्रह्म परशिवः । यद्वा—न कस्यापि धर्मः अधर्म इति नञ्तत्पुरुष एव युक्तः, परशिवे शक्तिरूपधर्मसत्त्वेन पूर्वकल्पे स्वोक्तव्याघातात् । तयोः संघट्टः मेळनं तेन उत्थिता । यावद्विकल्पः तेनोत्थिताः याः क्रियाः नित्यनैमित्तिकाः तासां लोपेन यत्पापं तत्संभवाः रोगाः तन्नाशिनी खेचरीति । अत एवैतादृशशिवशक्तिसामरस्यद्योतकं बाह्यरूपे बाहुद्वयपरिवर्तनम् । अष्टमी बी जमुद्रा -- जगतः षड्विकारेषु प्राथमिको यो भावविकारः सूक्ष्मरूपेण सत्ता तदभिमानिनी शक्तिः । तदुक्तमुत्तरचतुश्शत्याम्
शिवशक्तिसमाश्लेषस्फुरद्वयोमान्तरे पुनः ।
प्रकाशयन्ती विश्वं सा सूक्ष्मरूपस्थितं सदा । बीजरूपा महामुद्रा
॥ इति ॥
१७७
1
1
अयमर्थः - वटबीजे सुसूक्ष्मेऽपि किञ्चिदाकाशोऽस्ति विभुत्वात् । तस्मिन् यथा महावृक्षः सूक्ष्मरूपेण तिष्ठति तथा षत्रिंशत्तत्त्वानि शिवशक्तिगर्भे विद्यन्ते सूक्ष्मरूपेण । सैव सत्ता घटोऽस्ति पटोऽस्ति इत्यत्र अनुवर्तते । सा बीजमुद्रेत्यर्थः । सर्वबीजस्थानापन्नत्वात् सर्वबीजा । सूक्ष्मत्वादेव अङ्गुलिप्रग्रथनवेळायां संक्षोभिण्याद्यपेक्षया अल्पयोनित्वं सूक्ष्मत्वज्ञापकम् । या नवमी यो नि मुद्रा तद्वृत्त्यसाधारणो धर्मः मुद्रात्वे सति कळारूपत्वम् । मुद्रात्वस्वरूपमुक्तं प्राक् । कलापदार्थश्चोच्यते । शक्तिविशिष्टे प्रकाशरूपे परशिवे शक्तिमपहाय केवलस्वरूपमात्रनिष्कर्षणे सति तुरीयबिन्दुपदवाच्यत्वं यथा जलनिष्ठं द्रवत्वमपहाय स्वरूपमात्रनिष्कर्षणे जलपदवाच्यत्वम् । अत्रापहानं नाम शक्यताऽवच्छेदककोटिप्रवेशाभाव एव न ततः पृथक् निष्कासनं, असंभवात् । तस्य शुद्धशिवस्य शक्तिसंबन्धित्वेन विवक्षायां कामबिन्दुपदवाच्यता। तस्यैव संबन्धस्याभेदत्वेन शक्यताऽवच्छेदककोटिप्रवेशे विसर्गों हकारः विमर्शः इति तान्त्रिक व्यवहारः । तादृशसामरस्योत्तरं रक्तशुक्लबिन्दु मिश्रणेन
23
2.