________________
१७६
परशुरामकल्पसूत्रम् सूक्ष्मरेखा " नीवारशूकवत्तन्वी", "तस्य मध्ये वह्निशिखा” इति श्रुतिप्रसिद्धा । तस्याः शिखायाः द्विस्वभावत्वं ज्येष्ठास्वभावत्वं च । यथा लोके एकस्यैव दण्डस्य घटोत्पादकशक्तिमत्त्वं तन्नाशकशक्तिमत्त्वं चास्ति, तथाऽपि स दण्डः कदाचिदुत्पादकशक्तिप्रधानो भूत्वा घटमुत्पादयति, कदाचिन्नाशशक्तिप्रधान: तं नाशयति । एवं लोके बहुस्थले दृष्टम् । तथा दण्डस्थानीया उक्तरेखा । सा यदा जगद्रक्षणकर्तृत्वविशिष्टज्येष्ठाशक्तिप्रधाना तदा सर्वोन्मा दिनी पदवाच्या । तदुक्तं उत्तरचतुश्शत्याम्
बिन्द्वन्तराळविलसत्सूक्ष्मरूपशिखामयी ।
ज्येष्ठाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥ इति ।। अत एव तदङ्गुळिग्रथनवेळायां अङ्गुष्ठानामतर्जन्यः सरळाः दृश्यन्ते, बिन्दुद्वयाकारं मध्यमाद्वयं च भवति । तत्रापि निरुक्तशिखास्थानापन्नग्रथनवेळायां अनामाद्वयमेव ज्ञेयम् । मध्यमाद्वयस्य तदानीं बिन्दुद्वयरूपत्वेन तन्मध्यवर्त्यनामाद्वयस्य " तस्य मध्ये वह्निशिखा” इति प्रसिद्धशिखात्वं युक्तम् । षष्ठी तु- इदमेव पूर्वोक्तं शिखाद्वयं यदा वामाप्रधानं तदा सर्व म हा ङ्कुशा । सूक्ष्मरूपेण परमशिवकुक्षौ स्थितं जगत् । यथा अंतस्थो गजः अंकुशेन बहिराकृप्यते तथा सर्वस्य बहिराकर्षणात् सर्वमहाङ्कुशेत्युच्यते । परशिवकुक्षिस्थजगतो वमनात् वामा तत्प्रधाना शिखा सर्वमहाङ्कुशा इत्युच्यते । तदप्युक्तं योगिनीतन्त्रे
वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः । ___ तद्वद्विश्वं वमन्ती सा द्वितीये तु दशारके ॥ इति ॥ अत एव पूर्वमुद्रायां सरळयोरनामयोः वक्रता दृश्यते । लोके वमनवेळायां मानवो धनुराकारो वक्रो भवति । प्रसिद्धमेतत् । अत्रायं विवेकः-केवलवामात्वं सर्वसंक्षोभिणीपदप्रवृत्तिनिमित्तं, ज्येष्ठात्वविशिष्टवामात्वं सर्वाकर्षिणीपदप्रवृत्तिनिमित्तं, सूक्ष्माकाशान्तर्वृत्तिबिन्दुद्वयत्वं सर्ववश्यकरपदप्रवृत्तिनिमित्तं, ज्येष्ठाशक्तिप्रधानकबिन्दुद्वयमध्यवृत्तिरेखात्वं सर्वोन्मादिनीपदशक्यताऽवच्छेदकं, वामाशक्तिप्रधानत्वं सर्वमहाङ्कुशापदशक्यताऽवच्छेदकं, एवंरीत्या वैलक्षण्य सूक्ष्मधिया द्रष्टव्यम् । सप्तमी सर्व खे च री जीवानां स्वकर्मजनितरोगादिदुःखनाशनक्षमा शक्तिः । अत एव सर्वरोगहरचक्रस्था भवति । तदप्युक्तं योगिनीतन्त्रे- . . . .