________________
१७५
पश्चमः खण्डः-ललितानवावरणपूजा भूयते । एतेन अदृश्यरूपमपि तथेत्युन्नेयम् । द्वितीया सर्ववि द्रा वि णी सर्वानुत्पन्नान् द्रावयति वर्धयति पोषणेन सा सर्वविद्राविणी, सर्वेषां वस्तूनां पालकत्वादृजुस्वभावा ज्येष्ठाशक्तिप्रचुरा च । तदुक्तं योगिनीतन्त्रे- "क्षुब्धविश्वस्थितिकरी ज्येष्ठा प्राचुर्यमास्थिता" इति । क्षुब्धस्य उत्पन्नस्येत्यर्थः । यश्च संरक्षकः स ऋजुरिति लोके प्रसिद्धा गाथा । अत एव अस्या मुद्रायाः बाह्यरूपेऽपि अङ्गुष्ठेन कनिष्ठिकानामायोगे अङ्गुळिचतुष्टये ऋजुत्वं दृश्यते । एवमाद्यत्रिकोणे रेखात्रयमध्ये पूर्वस्यां दिशि स्थितायां ऋजुरेखायामेव तस्या अधिष्ठानं शास्त्रप्रसिद्धम् । तृतीया सर्वा क र्षिणी सर्वाकर्षणशीला । इयं ज्येष्ठावामोभयात्मिका । तदुक्तं योगिनीतन्त्रे
ज्येष्ठावामासमत्वेन सृष्टेः प्राधान्यमास्थिता।
· आकर्षिणीति मुद्रेयम् . . . . . . . . ॥ इति ॥ पूर्वोक्तमुद्राद्वयवाचकपदशक्यताऽवच्छेदकयोः द्वयोरपि सर्वाकर्षिणीपदशक्यताऽवच्छेदकत्वं बोध्यम्, पुष्पवच्छब्दवत् । तत्रापि ज्येष्ठात्वविशिष्टवामात्वं शक्यताऽवच्छेदकं, न तु विपरीतम् । तथा सति ज्येष्ठाया विशेष्यत्वेन प्राधान्यं वाच्यम् । प्राधान्ये ज्येष्ठाया अतिसरळत्वेन प्रधानानुसारेण विशेषणीभूतवामाया अपि प्रधानानुवर्तिन्याः सरळतया तर्जनीमध्यमयोः बाह्यरूपे कुटिलत्वं न स्यात् । वामायाः प्राधान्ये तु तस्याः कुटिलतया तदनुसारेण अप्रधानाया ज्येष्ठायाः प्रधानानुवर्तिन्याः कुटिलत्वं युक्तम् । अत एव बाह्यस्वरूपे अङ्गुळिग्रथने सर्वास्वगुळिषु कुटिलत्वम् । चतुर्थी सर्व व श्य करी सर्वान् क्षित्यादिशिवान्तान् वश्यं स्वाधीनं नयति प्रापयतीति तथा । लोके आकाशो द्विविधः दह्रः प्राकृतश्च । दहाकाशेऽपि सुसूक्ष्मोऽन्य आकाशोऽस्ति, “ तस्यान्ते सुषिरः सूक्ष्मं” इति श्रुतिप्रसिद्धः । तन्मध्ये गाढमाश्लिष्टा परशिवेन या आनन्दविग्रहा मूर्तिः सा सर्ववश्यकरीपदवाच्या । तदुक्तं उत्तरचतुश्शत्याम्
व्योमद्वयान्तराळस्थबिन्दुरूपा महेश्वरी ।
शिवशक्त्यात्मसंश्लेषादेषा वश्यकरी स्मृता ॥ इति ॥ बिन्दुरूपेति कथनात् स्वरूपमपि तथा । अत एवागुळिग्रथनेऽपि अस्या बाह्यरूपे बिन्द्राकारता सर्वाङ्गुलीनां गाढसंश्लेषोऽपि व्यक्तः । पञ्चमी उक्तशिवशक्तिबिन्द्रोर्मध्ये