________________
१७४
परशुरामकल्पसूत्रम् दिग्व्यवस्थासंप्रदायश्च पूर्वमुक्तः । ऊर्ध्वाधरावपि न लोकप्रसिद्धौ ग्राह्यौः किं तु । तान्त्रिकौ । तदुक्तं तत्त्वविमर्शिन्यां
इन्द्रेशानदिशोर्मध्ये स्थानमूर्ध्वस्य कीर्तितम् ।
निर्ऋत्यम्बुपयोर्मध्ये अधःस्थानं प्रकीर्तितम् ॥ इति ॥ मध्य मे चतुर श्रे ब्रा या द्याः–ब्राह्मी आदौ यासां ताः, एवं म हा लक्ष्मीः अन्ते । यासां ताः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव चेन्द्राणी चामुण्डाः सप्त मातरः ॥ इति प्रसिद्धाः सप्त, महालक्ष्मी चेत्यष्टौ मातरो मध्यचतुर) पूज्याः । तत्र क्रमाकांक्षायां वामकेश्वरतन्त्रे
ब्रह्माणी पश्चिमद्वारे माहेशीमपि चोत्तरे । पूर्वद्वारे तु कौमारी दक्षिणे वैष्णवीमपि ॥ वाराहीमपि वायव्ये तथैन्द्रीमैशदेशके ।
चामुण्डामपि चामेये महालक्ष्मी च नैर्ऋते ॥ इति ॥ अथ तृ ती ये चतुर श्रे दशमुद्रापूजनमाह—तृ ती ये इति । सर्वः सर्वशब्दः पूर्व यन्नामसु ताः यथा त्रितायुत्तरं सर्वसंक्षोभिणीशक्तिश्रीपादुकां पूजयामि इति । एतादृशमुद्राशक्तयः—मुद्राशब्दार्थश्चोक्तः प्राक्-तादृशमुद्रात्वव्याप्यधर्मावच्छिन्नाः इमाः । सर्व संक्षो भि णी पदार्थश्च इत्थं--सर्वान् पदार्थ'भूतान् क्षोभयतीति उत्पादयतीति सर्वसंक्षोभिणी, कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताऽऽश्रयेति यावत् । इयमेव वामाशक्तिरित्युच्यते । एतदुक्तं योगिनीतन्त्रे
योनिप्राचुर्यतस्सैषा सर्वसंक्षोभिका पुनः । .
वामाशक्तिप्रधानेयम् . . . . . . . . इति ॥ योनिः कारणत्वानि तेषां प्राचुर्यतो भूयस्त्वेन । अत एव सर्वसंक्षोभिण्या बाह्यस्वरूपे अङ्गुळिग्रथनात्मकेऽपि अङ्गुष्ठे कनिष्ठानामामध्यमाग्राणां योगे योनिभूयस्त्वं प्रत्यक्षेणानु___1 मात्रान्–श्री, अ.