________________
१७३
पञ्चमः खण्डः-ललितानवावरणपूजा पञ्चमः खण्डः-ललितानवावरणपूजा
प्रथमावरणव्यष्टिपूजा एतत्पदेन निर्दिष्टां पूजां वितत्य दर्शयति
अथ प्राथमिके चतुरश्रे अणिमालघिमामहिमेशित्ववशित्वप्राकाम्यभुक्तीच्छाप्राप्तिसर्वकामसिद्धयन्ताः मध्यमे चतुरश्रे ब्राहयाद्या महालक्ष्म्यन्ताः तृतीये चतुरश्रे संक्षोभणद्रावणाकर्षणवश्योन्मादनमहा - ङ्कुशखेचरीबीजयोनित्रिखण्डाः सर्वपूर्वास्ताः संपूज्याः ॥१॥
अथे ति नवावरणपूजाऽधिकारद्योतकम् । चतुरश्रत्रयमध्ये प्राथमि के सर्वबाह्ये च तु र श्रे अणिमेत्यारभ्य सर्वकामपर्यन्तं द्वन्द्वः । ते सर्वेऽपि सिद्धयन्ताः कार्याः । ___ सर्वेषां पदानां अन्ते सिद्धिरिति योज्यम् । तथा च त्रितारी ततोऽणिमासिद्धिश्रीपादुकां
पूजयामीति । एवमग्रेऽपि । अत्राणिमाऽऽदिपदत्रयं न मन्नन्तं, किंतु डाबन्तं, अणिमालघिमेतिसमासान्तसूत्रपाठात् । अणिमासिद्धीति पुंवद्भावरहितः पाठः अशास्त्रीयोऽपि संप्रदायानुरोधादार्षप्रायः । यद्वा-षष्ठीतत्पुरुषः । षष्ठयर्थश्चाभेद एव "राहोः शिरः” इतिवत् । प्राथमिकचतुरश्रे अणिमाऽऽदीनां यथेच्छं पूजाप्राप्तौ तन्नियमः वामकेश्वरतन्त्रे
अणिमां पश्चिमद्वारे लघिमामपि चोत्तरे । पूर्वद्वारे तु महिमामीशित्वाख्यां तु दक्षिणे ॥ वशित्वाख्यां तु वायव्ये प्राकाम्यामीशदेशके। . भुक्तिसिद्धिं तथाऽऽग्नेय्यामिच्छासिद्धिं तु नैर्ऋतौ ।।
अधस्तात् प्राप्तिसिद्धिं च सर्वकामं तथोर्ध्वतः ॥ इति ॥ 'सर्वकामां-श्री.