________________
१७२
परशुरामकल्पसूत्रम्
ओघत्रयपूजनम् ओघत्रयपूजामाह
मध्ये प्राक्यश्रमध्यान्तः मुनिवेदनागसंख्यान् यथासंप्रदायं पादुकान् दिव्यसिद्धमानवौघसिद्धानिष्ट्वा पश्चात् स्वशिरसि नाथं यजेत् । एतल्लयाङ्गपूजनं इति शिवम् ॥ १०॥
___ इति . . . कल्पसूत्रे ललिताक्रमो नाम चतुर्थः खण्डः
प्राक् त्र्य श्रं प्रथमव्यश्रम् । यद्वा-प्राक् त्र्य श्रं पूर्वोक्तं व्यश्रं तस्य यो म ध्यः आभ्यन्तरप्रदेशः तस्य यो अन्तः चरमावयवः स्वाभिमुखाग्रसमीपवर्ती यः आभ्यन्तरप्रदेशः तत्रेति फलितोऽर्थः । मु निः सप्त वे दः चत्वारः नागः अष्टौ संख्या यत्रेति व्युत्पत्त्या ओघे विशेषणम् । यथा संप्रदायं पा दुकाः, कादिहादिविद्याभेदेन पादुकानां गुरुमण्डलानां भिन्नत्वात् यस्य पुरुषस्य परिगृहीताः यायाः पादुकाः तत्तल्लाभाय यथासंप्रदायं पादुका इति । दि व्या श्च सिद्धाश्च मा न वा श्च ते ओघा श्च तादृशान् सिद्धान् । पूर्वोक्ते ओघविशेषणे । उभयत्र विभक्तिव्यत्ययः आर्षः । दिव्याः ७ सिद्धाः ४ मानवाः ८ इति विवेकः । तान् इष्टा पूजयित्वा । क्त्वाप्रत्ययेन पाठेन च प्राप्तक्रमः पश्चादित्यनेन अनूद्यते । एतत् उक्तं-यद्वा एतदुत्तरं वक्ष्यमाणं नवावरणपूजनं—लयाङ्गं लयस्वरूपं चतुरश्रादिबिन्द्वन्तक्रमस्य लयस्वरूपत्वात् ल याङ्ग पूजनं भवितुमर्हति । एतेन तन्त्रान्तरोक्तबिन्द्रादिपूजाव्यावृत्तिः । शि व मिति खण्डसमाप्तिद्योतकम् ॥ १०॥
इति . . . परशुरामसूत्रवृत्तौ ललिताक्रमो नाम चतुर्थः खण्डः
1 एके योगसूत्रसृष्टिस्थितिसंहारत्रिके पश्चपश्चिकपञ्चासूयान् प्रपञ्चादिन्यासदेवतादर्शनानि च । यजन्ति-इत्यधिकः पाठः क्वचित् .