________________
१७१
चतुर्थः खण्ड:-ललिताक्रमः आदिरकारः तस्यान्तः अग्रिमो देशः तत्र स्थित आकार इति तदर्थः । एवं "कामोऽमिापकोऽङ्कुशः" इति तत्रैव । कामः ककारः अग्निः रेफ: व्यापकः प्रणवः मिळित्वा क्रोमिति संपद्यते । अयमङ्कुश इत्यर्थः । स्म रः क्लीं वा ग्भ वः ऐं वर्म हुं। इत्थं च ह्रीं फ्रें तूं क्रों आं क्लीं ऐं ब्लू नित्यमदद्रवे हुं फ्रें ह्रीं नीलपताकानित्याश्री इति मन्त्रस्वरूपम् । द्वादशमाह-भ म र य ऊं इति । अत्रापि पूर्वयुक्त्या हल्मात्रग्रहणम् , “ इयमेकाक्षरी विद्या विजया संप्रकीर्तिता" इति तन्त्रान्तरवचनात् ॥
तेन निबन्धे पञ्चाक्षरोच्चारणं औकारोच्चारणं प्रामादिकम् । यूंमिति स्वरूपं ज्ञेयम् । यद्यपि तन्त्रान्तरे अङ्गदादिबिन्दुसंयुतमित्यस्ति । अङ्गद औकारः । तेन चरमस्वर औकार इति प्रतिभाति । तथाऽपि सूत्रे षष्ठस्वरोच्चारणात् सूत्रविरुद्धं तन्त्रान्तरोक्तं सूत्रानुसारिणामनादर्तव्यमेव ॥
त्रयोदशमाह—स्वौ मि ति । चतुर्दशमाह—ता र इति अमिजा ये त्यन्तेन । त्रिजातियुक्तमाया ह्रां ह्रीं हूं। वह्निजाया स्वाहा । शेषं स्पष्टम् । पञ्चदशमाह'अं च्कौ मिति । पञ्चदशनित्यापूजने देशनियममाह-प्रथ मे त्या दि । प्रथमत्र्यश्रं बिन्दुसमीपस्थं त्रिकोणं, तत्रत्या यास्तिस्रो रे खाः, तासु वर्तमाना ये पञ्च दश स्वराः अकाराद्यनुस्वारान्ताः तेषु एकैकस्वरे एकैकनित्या क्रमेण पूज्येत्यर्थः । अत्र रेखास्थितपञ्चदशस्वरेष्विति स्वराणां तत्र सिद्धवन्निर्देशात् एकैकरेखायां पञ्चपञ्चस्वराः भावनीयाः इति विधिरुन्नेयः । क्रम स्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्येन । पश्चिमादारभ्य ईशानान्तरेखायां अ आ इ ई उ इति । ऐशानादाग्नेयान्तरेखायां ऊ ऋ ऋ ल ल इति । आग्नेयादारभ्य पश्चिमान्तं ए ऐ ओ औ अं इति भावनाविवेकः । विगता निर्गता सृष्टिः यस्याः सा वि सृ ष्टिः बिन्दुचक्रम् । तत्सृष्टिप्रकारः उत्तरचतुश्शतीव्यारव्याने सेतुबन्धे द्रष्टव्यः । तस्मिन् षोड शी समष्टिरूपां मूल विद्य या पञ्चदश्या अभ्य » । एतासामधिष्ठानं कुप्तत्रिकोणादन्यदेव त्रिकोणमुक्तं ज्ञानार्णवे
विभाव्य च महाव्यश्रमग्रदक्षोत्तरं क्रमात् ॥ इति ॥
तन्त्रराजे तु बिन्दावेव पूजनमुक्तम् । इत्थं तत्तत्तन्त्रानुयायिभिः तत्र तत्र कर्तव्यम् ॥ ९॥