________________
१७०
परशुरामकल्पसूत्रम्
चित्रेति पञ्चदशनित्याः प्रथमत्र्यश्ररेखास्थितपञ्चदशस्वरेषु पूज्याः । विसृष्टौ षोडशीं मूलविद्यया चाभ्यर्च्य ॥ ९ ॥
वाक् ऐं । शेषं यथापठितम् । मन्त्रान्ते सर्वत्र तत्तन्नित्यानाम, तदुत्तरं अष्टाक्षरीयोगः । यथा आदौ त्रितारी, ऐं सकलहीं नित्यक्लिन्ने मदद्रवे सौः कामेश्वरीनित्याश्रीपादुकां पूजयामि नमः इति । एवमग्रेऽपि द्रष्टव्यम् । यद्यपि श्रीपादुकेत्यष्टाक्षरीयोगः सामान्यवचनप्राप्तः, तथाऽपि नित्यापदघटितत्वेनाप्राप्तत्वात् तदर्थ आरम्भः सर्वत्र नित्यापूजनमन्त्रेषु । द्वितीयमाह – वा गिति । तृतीयमाहतार इति । तारः प्रणवः, माया ह्रीं, शेषं यथाश्रुतं पठनीयम् । आदौ प्रणवः, ततो माया, ततः स्वाहाऽन्तो यथाश्रुतः इति फलितोऽर्थः । चतुर्थमाह – प्रणव इति स्वाहेत्यन्तेन । पञ्चमीमाह – प्रणव इति नम इत्यन्तेन । षष्ठमाह —– मायेति
1
ह्री मित्यन्तेन । सप्तममाह- -मायेति नम इत्यन्तेन । अष्टममाह- -प्रणव इति फ डि त्यन्तेन । नवममाह — कुमारी ति । कुमारी बाला सैव कुल सुन्दरी त्यर्थः दशममाह —ह से ति षोडशा इत्यन्तेन । अत्र पूर्वोक्तयुक्त्या हसकेत्यादौ केवलव्यञ्जनानामेव ग्रहणम् । अन्यथा " द्वादशार्धा च नित्या स्यात् " इति अन्यतन्त्रवचनेन द्वादशार्धामन्त्रवर्णातिदेशे " त्रिबीजस्था द्वादशार्धा " इति मन्त्रे त्रिवर्णत्वसिद्धेः अत्रापि तदतिदेशसिद्धत्रिवर्णत्वं विरुध्येत । ह स क ल र डोत्तरं वाग्भवः ऐं पुनः तदुत्तरं बिन्दु युक्ता मालिनी ईकार:, " गोविन्दश्च त्रिमूर्तीशो मालिनीवामलोचनम् " इति कोशात् । चतुर्दशषोडशौ पूर्वमुक्तौ । इत्थं च हस्क्र् ट्स्क्लुड हस्कर्ड: नित्यानित्या श्री इति मन्त्रस्वरूपम् ॥
यच्च निबन्धे अवर्णसहितहकारादि लिखितं तदज्ञानप्रयुक्तमेव । तन्त्रान्तरानुसारेण यदि लिखितं, तर्हि वशिन्यादिन्यासे कवर्ग कलह्नीं च निगद्य इति सूत्रे सति हल्मात्रग्रहणे तन्त्रान्तरमृते साधनं मृग्यम् । तस्मात् उक्तयुक्त्या त्र्यक्षर्येव नित्याविद्या ॥
एकादशमाह—–मा ये त्यारभ्य मा ये त्यन्तेन । आद्यानि त्रीणि बीजानि स्पष्टानि, अङ्कुशः क्रोमिति, पाशः आमिति " आद्यन्तगोमहापाश” इति योगिनीतन्त्रात् ।