________________
१८२
परशुरामकल्पसूत्रम् अनङ्गकुसुमां पूर्व दक्षिणेऽनङ्गमेखलाम् । पश्चिमेऽनङ्गमदनामुत्तरे मदनातुराम् ॥ अनङ्गरेखामाग्नेये नैर्ऋतेऽनङ्गवेगिनीम् ।
अनङ्गाङ्कुशां वायव्ये ईशानेऽनङ्गमालिनीम् ॥ इति ॥ पूर्वचक्रदेवताऽन्तरङ्गत्वात् आसां गुप्त त र त्वम् । शेषं गतप्रायम् ॥ ५ ॥
चतुर्थावरणपूजा चतुर्थावरणपूजामाह
भुवनारे संक्षोभिणीद्राविण्याकर्षिण्याह्लादिनीसंमोहिनीस्तम्भिनीजृम्भिणीवशंकरीरञ्जन्युन्मादि - न्यर्थसाधिनी - संपत्तिपूरणी -मन्त्रमयी-द्वन्द्वक्षयंकरीः सर्वादीरवमृश्यैताः संप्रदाययोगिन्यः सर्वसौभाग्यदायकचक्रे समुद्रा इत्यादि मवशेषः चक्रासनमुच्चार्य त्रिपुरवासिनी चक्रेश्वरीमिष्ट्वा ब्लूं इति सर्ववशंकरीमुद्रामुद्घाटयेत् ॥ ६॥
भुवनारे चतुर्दशारे । भुवनानि चतुर्दश । शेषं दिक्पत्रवत् । सर्व आदिर्यन्नामावयवानामित्यपि व्याख्यातप्रायं अनङ्गपूर्व इत्यनेन । क्रमाकांक्षायां योगिनीतन्त्रे “वामावर्तक्रमेणैव पश्चिमादेव दक्षिणं" इति पश्चिमे प्रारम्भः ततस्ततो दक्षिणं ग्राह्यमिति तदर्थः । पश्चिमादारभ्य अप्रादक्षिण्यनेति फलितोऽर्थः ॥ ६ ॥
पञ्चमावरणपूजा
पञ्चमावरणपूजामाह
बहिर्दशारे सिद्धिप्रदासंपत्प्रदाप्रियंकरीमङ्गळकारिणीकामप्रदादुःखविमोचिनीमृत्युप्रशमनीविघ्न -