________________
१६८
परशुरामकल्पसूत्रम्
तदुभयमपि स्थूलमानत्वादुपेक्ष्यम् । वस्तुतस्तु ज्ञानार्णवे श्रीचक्रपूजनसन्निधौ
उत्तराशामुखो मन्त्री यदा चक्रं समुद्धरेत् । उत्तराशा तदा देवि पूर्वाशेति निगद्यते ॥ ईशानकोणं देवेशि तदाऽऽग्नेयं न संशयः । पश्चिमाशामुखो मन्त्री यदा चक्रं समुद्धरेत् ॥ पश्चिमाशा तदा ज्ञेया पूर्वाशेति न संशयः । वायुकोणं तदाऽऽयमैशानं राक्षसं भवेत् ॥ दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् । पूर्वाशैव ह्युदीची स्यात् रक्षःकोणं तु वह्निदिक् ।। इति ।। उत्तरापश्चिमाशेत्यत्र लोकप्रसिद्धोत्तरां दिशमनूद्य पूर्वादिदिकार्य विधीयते " खलेवाली यूपो भवति" इतिवत् । इत्थं च दिङ्मात्रानुवादेन दिक्कार्यविधानात् विदिङ्मुखश्चक्रं नोद्धरेत् इति सिद्धम् । प्राचीदिगनुवादेन विधेयाभावात् तत्त्यक्तम् । एवं कुलार्णवेऽपि—
यदाशाऽभिमुखो मन्त्री त्रिपुरां परिपूजयेत् । देवीपश्चात्तदा प्राची प्रतीची त्रिपुरापुरः ॥
इति निरवकाशवचनैः श्रीविद्याविषये उक्तरीत्या दिव्यवस्था । श्रीविद्याऽतिरिक्ते तान्त्रिके कर्मणि पूज्यपूजकयोर्मध्यं प्राची । निखिलश्रौतस्मार्तकर्मणि यः पश्येदित्यादिवचनप्रवेश इति अलं भूयसा देव्या इत्युक्त्या विन्दुचक्र एवानेयादिदिश उक्तशास्त्रेण प्रकल्प्य तत्र षडङ्गयुवतीः पूजयेत् इति सिद्धम् ॥ ८ ॥
नित्यापूजनम्
अथ पञ्चदशनित्यामन्त्रोद्धारपूर्वकं नित्यापूजनमाह
वाक्कलहीं नित्यक्लिन्ने मदद्रवे सौः इति कामेश्वरी । सर्वत्र नित्या श्रीपादुकेति योज्यम् । वाग्भगभुगे भगिनि भगोदरि भगमाले भगावहे