________________
चतुर्थः खण्डः-ललिताक्रमः
१६७
___“वामकराङ्गुष्ठानामिकासन्दष्ट” इति सूत्रानुसारेण वामकरस्यावश्यकता इति
वाच्यम् ; दक्षकरस्य पुष्पाक्षतप्रक्षेपव्यापृतत्वेन सहत्वान्यथाऽनुपपत्त्या प्राप्तवामकरस्य विधानासंभवेनानुवादकत्वात् । अत एव बहिष्पवमानस्तोत्रार्थ प्रसर्पणावसरे छन्दोगानां सूत्रे " सव्यैः पाणिभिस्तृणन्ति" इत्यत्र भाष्ये दक्षहस्तस्य “ अध्वर्यु प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता, प्रतिहारमुद्गाता" इति वाक्येन अध्वर्वाद्यन्वारंभे व्यापृतत्वात् अर्थप्राप्तः सव्यपाणिः अनूद्यते इत्युक्तम् ॥ .
के चित्तु-सन्तयेत्यनुवर्त्य तर्पणपूजोभयं विधीयते अर्धजरतीयन्यायभीत्या, त्रितायुत्तरं हृन्मन्त्रान्ते हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः इति मन्त्रं पठन्ति । तदशुद्धम् , अनुवृत्तौ प्रमाणाभावात् ॥
किं च विधौ आदौ तर्पणं, पश्चात् पूजा, मन्त्रे विपरीतक्रम इति च विरुद्धम् ॥
तस्मात् पूर्ववाक्ये तर्पणं नाम बिन्दुप्रक्षेपमात्रम् । तस्य अनुवृत्तौ आकांक्षाविरहात् पूजनमेव विधीयते । पूजापदार्थश्च बिन्दुपुष्पाक्षतसमुदायप्रक्षेपः । इत्थं च आदौ त्रितारी, ततो हृन्मन्त्रः, ततो हृदयशक्तिश्रीपादुकां पूजयामि इति मन्त्रस्वरूपं ज्ञेयम् । एवमेवाग्रेऽपि सर्वत्र ज्ञेयम् ॥
__अग्नी शे त्यत्र अम्यादिपदेन तत्तद्देवतासंबन्धिदिशां ग्रहणम् । दि क्षु इत्यनेन प्रागादिदिक्चतुष्टयग्रहणम् । षडङ्गयुवतीनां—अम्यादिचतस्रो विदिशः, मध्यं, प्रागादिदिक्चतुष्टयं मिलित्वैकं, इति षट् स्थानानि ज्ञेयानि ॥
अत्र केचित्
यः पश्येद्यत्र सूर्य तु सा प्राची तस्य कथ्यते ।
उदये सूर्यद्रष्टुस्तु मेरुरुत्तरसंस्थितः ॥ इति दिग्व्यवस्था श्रौतस्मातकर्मणि प्रसिद्धा, तथैव श्रीविद्योपासनायामपि दिग्व्यवस्था इत्याहुः ॥
अन्ये तु निरुक्तदिग्व्यवस्थाया वैदिके कर्मणि सावकाशत्वात् “ पूज्यपूजकयामध्ये दिशं प्राची प्रकल्पयेत्' इति तन्त्रवचनानुसारेण देव्यग्रभागः प्राची, देवीपृष्ठभागः प्रतीची, देव्या दक्षभागो दक्षिणा, वामभाग उदीची, दिगनुसारेण विदिशां कल्पनं इत्यूचुः ॥