________________
१६६
परशुरामकल्पसूत्रम् न च तस्य श्यामाप्रकरणस्थत्वात् तत्रैव विश्रान्तिः इति वाच्यम् । श्यामाया ललितोपास्त्यङ्गत्वं पूर्वमेव व्यवस्थापितम् । अङ्गस्य प्रकरणं नास्तीति मीमांसकसिद्धान्तः । अतः प्रबलेन प्रकरणेन सन्निधिं बाधित्वा सर्वत्र विनियोगे बाधकाभावात् ॥
न च तथाऽपि श्यामापदैरुभयतः संदंशात् प्रयाजाभिक्रमणन्यायेन अवान्तरप्रकरणं महाप्रकरणबाधकं भविष्यति इति वाच्यम् ; सर्वशब्दश्रुत्या सर्वप्रबलया अवान्तरप्रकरणबाधसंभवात् ॥
किं च अनारभ्य पठितेन सिद्धान्तग्रन्थस्थेन “ तदभिव्यञ्जकाः पञ्च मकाराः तैरर्चनं" इत्यनेन द्रव्यस्य प्राप्तत्वेन अनुपपत्तिगन्धाभावात् ॥
एता एव युक्तयः गणपतिप्रकरणस्थ----" सर्वत्र देवतानामसु श्रीपूर्व पादुकां पूजयामीत्यष्टाक्षरं योजयेत्” इति वाक्ये-द्रष्टव्याः ॥
त्रिधा त्रिवारं, अत्र द्रव्यभेदात् मन्त्रावृत्तिज़ैया ॥ ७ ॥
षडङ्गपूजनम् षडङ्गपूजनमाह
देव्या अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि पूजयित्वा ॥ ७॥
अत्र पूजनं नाम पुष्पाक्षतबिन्दुप्रक्षेप एव, न तु पञ्चोपचाराद्यर्पणरूपं, श्यामाक्रमोक्तकल्पसूत्रानुरोधात् तथा शिष्टसंप्रदायाच्च । ___एवं सति अत्राधुनिकाः—यत्र यत्रैतदुत्तरं पूजयित्वेति तत्र तत्र पूर्वसूत्रस्थं सन्तयेत्यनुवोभयविधिः, मूलदेवीस्थले तर्पणमात्रं, बिन्दुद्रव्यदानं तर्पणं, पुष्पाक्षतदानं पूजनं, इत्थं च त्रितारीशिरोमन्त्रोत्तरं शिरश्शक्तिश्रीपादुकां पूजयामि शिरश्शक्तिश्रीपादुकां तर्पयामि इत्यनुतिष्ठन्ति । तदनुष्ठानं भ्रान्तिमूलम्, तथा सति अर्धजरतीयन्यायात् । त्रितारीमारभ्य शिरोमन्त्रान्तं सकृदावृत्तिः, शिरश्शक्तीत्यारभ्य द्विवारमिति कथनस्यातिहासास्पदत्वात् । किं च पूजयामीति मन्त्रेण पूजनं अग्रिममन्त्रेण तर्पणं इति पूजनतर्पणयोः क्रमिकत्वं प्राप्तम् । तथा सति बिन्दुपुष्पाक्षतदानयोः एककालबोधकेन बिन्दुसहपतितः पुष्पाक्षतैः कुर्यात् इति सूत्रेण विरुध्यते । अपिच वामकरसंबन्धाभावप्रसङ्गश्च, क्रमिकत्वेन द्वयोरपि दक्षहस्तेन कर्तुं शक्यत्वात् । न च