________________
चतुर्थः खण्डः - - ललिताक्रमः
१६५
66
अन्यत्र पूजनम् । अनुष्ठाने विशेषस्तु अत्र बिन्दुमात्रप्रक्षेपः, पूजनस्थले बिन्दुपुष्पाक्षतोभयप्रक्षेपः । किंच मूलेनेति तृतीयया इतरनैरपेक्ष्यश्रवणात्, श्रीपादुकेत्याद्यष्टाक्षर्याः पूजायामेव योजनविधानात्, 'स्वाहा होमे तर्पणे च तर्पयामीति चोच्चरेत्” इति दक्षिणामूर्तिसंहितावचनेन मूलान्ते तर्पयामीत्येव योगः ॥ ननु तन्त्रान्तरे एकक्रियायामेव द्वयोः पदयोः प्रयोगः पर्यायेण दृश्यते, यथा " क्षीरेण ब्राह्मणैस्तर्प्य” इति " द्रव्येण सात्विकेनैव ब्राह्मणः पूजयेच्छिवाम्” इति, क्वचित् अस्मिन्नेवार्थे यजधातुरपि दृश्यते यथा -- " सुराघटसहस्रेण यक्ष्ये त्वां परमेश्वरि” इति, तथा च तर्पणपूजनयजनानि पर्यायाणीति चेत् — न । नह्येकार्थे प्रयोगमात्रेण पर्यायता सिध्यति, लक्षणयाऽप्यन्यस्मिन्नर्थे प्रयोगसंभवात् । अन्यथा गङ्गातीरपदयोरपि तथात्वापत्तेः । अत एव " वायव्यं श्वेतमालभेत भूतिकामः " इत्यत्र धातोः स्पर्शार्थकत्वेऽपि द्रव्यदेवतायोगस्य यागमन्तराऽनुपपत्तेः आलभतिधातोः यागे लक्षणा कल्पिता । तथा अनुपपत्त्यभावेन अग्निहोत्रे श्रूयमाणस्य " वत्समालभेत " इत्यत्र धातोः यथाश्रुतार्थत्वमेवाङ्गीकृतम् । प्रकृतेऽपि सन्तप्येत्यत्र वायव्यादिवाक्यवत् बाधकाभावात् वत्समालभेत इतिवत् यथाश्रुतार्थत्वमेव युक्तम् ॥
I
1
ननु द्रव्यस्यात्राप्यनुक्तत्वात् तर्पणं पूजनं वा केन कार्यमिति चेत् — उच्यते । विहिततर्पणादिकं साधनमपेक्षते । संस्कृतं विशेषायै च कार्यमपेक्षते । एवं साकांक्षयोस्तयोः नष्टाश्वदग्धरथन्यायेन विशेषायै संस्कृत्य तेन देवतां यजेत् इति वाक्यैकवाक्यता कल्प्यते ॥
न च एवं सति सामान्यार्घ्यस्याऽपि तुल्यत्वेन तस्यापि पूजासाधनत्वापत्तिः इति वाच्यम् ; तज्जलेन त्रिकोणेति विशेषार्घ्यमण्डलादौ श्रौत विनियोगेनास्य किं कार्य इत्याकांक्षाविरहात् ॥
न च एवं " तद्विन्दुभिः त्रिशः गुरुपादुकामिष्ट्रा " इति तृतीयया विशेषार्घ्यस्यापि विनियोगश्रवणात् उभयत्र तुल्यं इति वाच्यम्; एतदर्घ्यसंशोधनमिति तदग्रिमसूत्रेण तावत्पर्यन्तं विशेषार्ध्यसंस्कारस्यैवोक्तत्वेन बिन्दुभिरित्यादेरपि संस्कारान्तःपातित्वात् किं च श्यामाक्रमे स्थितेन सर्वचक्रदेवताऽर्चनानि वामकरांगुष्ठानामिकासन्दष्टद्वितीयशकलगृहीत श्रीपात्रप्रथम बिन्दुसहपतितैः दक्षकराक्षतपुष्पक्षेपैः कुर्यादिति वचनेन द्रव्यलाभस्य निष्प्रत्यूहत्वात् ॥
དྭེ