________________
१६४
परशुरामकल्पसूत्रम्
अक्षतपूजने विशेषो योगिनीतन्त्रे
श्वेताक्षतैर्न पूज्या स्यात् त्रिपुरा परमेश्वरी । काश्मीरैः 'कुङ्कुमैर्वाऽपि रक्तचन्दन पङ्ककैः ।
रञ्जितान् शालिजान् शुद्धानखण्डानर्पयेत् बुधः ॥ इति ॥ इदं प्रतिनिधिकल्पनमपि गन्धपुष्पधूपदीपनैवेद्यव्यतिरिक्तविषयमेव । तदुक्तं योगिनीतन्त्रे
उपचारानलाभे तु पुष्पाद्यैर्मनसा स्मरेत् । गन्धपुष्पधूपदीपनैवेद्यान्यन्महेश्वरि । गन्धादिपञ्चकाभावे पूजा व्यथैव सर्वदा ॥ इति ॥
नवमुद्राप्रदर्शनम् नवमुद्राश्च प्रदर्य ॥ ६॥
न व मुद्राः संक्षोभिण्यादियोन्यन्ता वक्ष्यमाणाः । च कारेण दशमी त्रिखण्डां च प्रद W । देव्या इति शेषः ॥ ६ ॥
त्रिधा संतर्पणम् मूलेन त्रिधा सन्तर्प्य ॥ ७॥ बिन्दाविति शेषः ॥
केचित्तु विशेषार्घ्य एव तत्संस्काररूपंततः किंचित् उद्धृत्य पात्रान्तरेण तत्रैव निक्षेपरूपं–तर्पणं विधीयते इत्यूचुः । तन्न, विशेषार्थ्यशोधनप्रकरणाभावेन तथात्वे प्रकृतहान्यप्रकृतकल्पनापत्तेः, एतदर्थ्यसंशोधनमिति पूर्वसूत्रविरोधाच्च । न च बिन्दाविति कथं ज्ञातमिति शंकनीयम् , मूलेनेति 'तुरीयकूटश्रवणेन तज्ज्ञानसंभवात् । परं तु इयान् विशेष:- एतदतिरिक्ते पूजयित्वेति, अत्र सन्तयेति श्रवणात् , अत्र तर्पणं, 1 वा हरि दैर्वा--श्री.
' पङ्कजः-श्री. ३ सर्वधा-श्री, ब२.
* तृतीय--ब२.