________________
चतुर्थः खण्डः-ललिताक्रमः एलालवङ्गकर्पूरकस्तूरीकेसरादिभिः । जातीफलदकैः पूगैः लाङ्गल्यूषणनागरैः ।
चूर्णैः खदिरसारैश्च युक्ता कर्पूरवीटिका ॥ इति ।। लागली नारिकेळम् । ऊषणा पिप्पली । नागरं शुण्ठी । खदिरसारं महाराष्ट्रभाषया " कात्" इति प्रसिद्धम् । आ नन्द स्य उल्ला सः उदयः तेन वि ला सः आविर्भावः यस्यदृश हा सम् । लोकेऽपि आनन्दोदयज्ञापको हासः । अतो युक्तं ईदृशं विशेषणम् । म जळा रा ति लक्षणं परमानन्दतन्त्रे--
तत आरार्तिकं कुर्यात्तद्विधानं शृणु प्रिये । लोहभिन्ने सुवर्णादिपात्रे सिन्दूररेणुभिः ।। नानाविधैर्वर्णकैश्चाप्यष्टपत्रं 'सकर्णिकम् । स्वस्तिकं वा प्रकल्प्याथ पिष्टजान् डमरुप्रभान् ॥ घृतपक्वान्नवसप्तपञ्चत्रितयमेव वा । सवर्तिकं वृतैः पूर्ण क्रमाद्विन्यस्य पात्रके ।। प्रज्वाल्य मायया पश्चान्नवरत्नैश्च मन्त्र येत् । चक्रमुद्रां प्रदाथ नवरत्नैश्च पूजयेत् ॥ आमस्तकं तु तत्पात्रमुद्धरेत् स्वयमुत्थितः । समस्तचक्रचक्रेशियुते देवि नवात्मिके ॥ आरार्तिकमिदं दिव्यं गृहाण मम सिद्धये । इति घण्टां वादयन् वै देव्या आपादमस्तकम् ॥ दक्षहस्तेन त्रिर्धाग्य पात्रं स्थाप्य नतिं चरेत् ।
एवमारार्तिकं कुर्यात् . . . . . . . . . ॥ इति ॥ ताळ वृन्तं ताळव्यजनम् । शेषं स्पष्टम् । चतुष्षष्टयुपचारमध्ये उक्तस्य अलाभे प्रतिनिधिद्रव्यनियम उक्तस्तन्त्रान्तरे
तत्तद्र्व्येणोपचारानभावे कुसुमाक्षतैः ।
मनसा भावयन् कुर्यात्तेन पूजाफलं लभेत् ॥ इति ॥ 1 मनोहरं— श्री. सुवर्णकं—व२.