________________
१६२
परशुरामकल्पसूत्रम् सङ्ख्यापादपभेदयोः” इति सकारशकारयोर्नातिभेदात् “एकदेशविकृतमनन्यवत्" इति न्यायेन वृक्षविशेषः सुगन्धिः । म ग म द: कस्तूर्यवान्तरभेदः । यद्वा--
ओतुविशेषावयवो मृगमदः महाराष्ट्रभाषया जव्वाजि इति प्रसिद्धः । कस्तूरी मृगनाभिः । आ दि पदेन अन्यानि लोकप्रसिद्धानि सुगन्धिद्रव्याणि । सर्वाङ्गीणं सर्वाङ्गसंबन्धि । सर्वाङ्गशब्दात् संबन्धार्थे खप्रत्यये सर्वाङ्गीणं इति रूपं सिध्यति । तादृशं यत् विले प न म् । अग रुः प्रसिद्धः । तन्मध्ये अत्युन्नतः का ला ग रुः । म ल्लि का मा ल ती त्यादिना षड़तुसमुद्भवकुसुमानि । सी मन्तः केशपाशमध्यसरणिः तस्मिन् सिन्दू रम् । ति ल क स्थाने र लम् । का लाञ्जनं अतिकृष्णाञ्जनं सौवीराञ्जनं वा । पाळी कर्णभूषणं, महाराष्ट्रभाषया बाळी इति प्रसिद्धम् । तस्या युग ळं युग्मम् । अधरे ओष्ठे या वकं लाक्षारसं रक्तत्वसंपादकम् । प्रथम भूषणं मङ्गळसूत्रम् । क न क चिन्ता कं आन्ध्रपुरन्ध्रीभिः धृतो भूषणविशेषः कण्ठस्य आन्ध्रभाषया गोळकुत्तिकण्ट्र इति प्रसिद्धः । पद कं कण्ठभूषणं महाराष्ट्रभाषया तन्मणि इति प्रसिद्धम् । महापदकं कण्ठभूषणविशेषः महाराष्ट्रभाषया पेटया इति प्रसिद्धः । मुक्ताव लिं महाराष्ट्रभाषया कण्ठा इति प्रसिद्धम् । ए का व लिं सप्तविंशतिमौक्तिकरचिता माला नक्षत्रमाला इति प्रसिद्धा, " एकावल्येकयष्टिका सैव नक्षत्रमाला स्यात् " इत्यमरः । छ न्न वीरं उभयतो वैकक्ष्यदामात्मकं भूषणं इति निबन्धे स्थितम् । के यू राणां अङ्गदानां युग ळं युग्मं तस्य चतुष्ट यं एकैकबाहौ द्वयं द्वयम् । व ल याः कङ्कणानि तेषा मा व ळिं पङ्क्तिम् । ऊ मि का अगुळिभूषणं तस्य आ व ळिम् । कटिभूषणान्याह-काश्ची ति। सौ भाग्या भरणं अधरे जघनालम्बी भूषणविशेष इति निबन्धे स्थितम् । पाद कटकरत्न नू पुर पा दाङ्गुळी यो त्तरमेकवचनमविवक्षितम् , तदर्थम्य बाधात् । आयुधान्याह-ए के ति । पुण्ड्रे क्षुः चित्रवर्णेक्षुः । पुष्पमयाः बाणाः पुष्प बा णाः तान् । आयुधक्रम उक्तो दक्षिणामूर्तिसंहितायाम्
दक्षिणाध:करे बाणान् वामाधस्तु शरासनम् ।
वामोर्चे पाशमारक्तं दक्षोद्धे तु सृणिं परम् ॥ इति ॥ म हा चक्रं श्रीचक्रम् । का मे श्वराङ्क एव पर्य कः, तत्रोप वे श न म् । अमृतरूपास वो मद्यं, तद्युक्त च ष क म् । आ च म नी यं स्पष्टम् । क : रवी टि का लक्षणमुक्तं तन्त्रान्तरे