________________
१६१
चतुर्थः खण्डः-ललिताक्रमः श्रीमन्माणिक्यपादुके स्वसमानवेषाभिरावरणदेवताभिः सह महाचक्राधिरोहणं कामेश्वराङ्कपर्योपवेशनं अमृतासवचषकं आचमनीयं कर्पूरवीटिकां आनन्दोल्लासविलासहासं मङ्गळारार्तिकं छत्रं चामरयुगळं दर्पणं ताळवृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामि नम इति चतुष्षष्टयुपचारान् विधाय॥५॥
अत्र सामान्यपरिभाषयैव त्रितारीसिद्धौ पुनर्विधानं दीपनाथमन्त्रवत् तदवयवत्वं ज्ञापयति । शेषं स्पष्टम् । मन्त्रस्य स्वरूपं तु ऐं ह्रीं श्रीं पाद्यं कल्पयामि नम इति । न ललिताया इति नामप्रवेशः, मानाभावात् ।।
निबन्धकारस्तु न्यायानभिज्ञः स्वेच्छाचारी च, तस्मात् नामप्रवेशं स्वेच्छ्या चक्रे । न च संप्रदानकारकस्याकाङ्क्षितत्वात् तद्वाचकपदाभावात् अबोधकत्वं स्यात् इति वाच्यम् ; अध्याहारेणाकाङ्क्षाशान्तेः, अध्याहृतम्य पदस्य मन्त्रावयवत्वेन न्यायविद्भिरनङ्गीकारात् , अन्यथा “इषे त्वा छिननि, ऊर्जे त्वा उन्मामि” इति प्रयोगकाले पाठापत्तेः । अतो यावच्छूतो मन्त्रः । यदि नाममन्त्रत्वं मत्वा नामप्रवेशः, तर्हि नाममन्त्रस्य नमोऽन्तत्वं चतुर्थ्यन्तत्वं लक्षणम् । अत्र द्वितीयाऽन्तकल्पयामिभ्यां मध्ये व्यवधानान्न संभवतीति तत्त्वम् । किं च सर्वत्रोपचारमन्त्राणां कल्पयामि नम इत्यनेनैव निर्वाहे त्रितारीमुच्चार्येति सूत्रं व्यर्थ सत् मन्त्रस्वरूपं प्रतिपादयति । यावदुक्तं पठनीयम् । उत्पत्तिवाक्ये ललितापदप्रयोगादिति निर्मूलललितापदप्रवेशे हेतुर्वक्तव्यः । तमजानन् केवलकाव्यपाठी निबन्धकारः सूत्रकारेण ललितापदस्य भूरिप्रयोगादिति हेतुविलेखनेन स्वीयमपाण्डित्यं प्रकाशितवान् ॥
क्र मे णे त्यनेन पाद्यमिति प्रातिपदिकस्थाने आभरणावरोपणादिपदोच्चारणं ज्ञापयति । स्ना नी यो द्वर्तनं शरीरलग्नस्नेहवियोगसाधनं सुगन्धिचूर्णविशेषः । अत्र द्वितीयान्तानि सर्वाणि तत्तद्वस्तुजन्यसुखविशेषपराणि । कुचो त्तरी यं कञ्चकम् । आलेपः सुगन्धिद्रव्यशरीरसंयोगः तज्जनको म ण्ट पः स्थानविशेषः । कु कु मं काश्मीरम् । संकुः वृक्षविशेषः । तदुक्तं विश्वकोशे-" शङ्कुः कीले गरे शस्त्रे
21