________________
१६०
परशुरामकल्पसूत्रम्
66
अत एवोक्तं शिवमहिम्ने- न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति " इति । अत एवोपचारमन्त्रे कल्प या मीत्येव क्रियापदं योजितम् । शेषं सुस्पष्टम् ॥ ४ ॥
त्रिता मुच्चार्य पाद्यं कल्पयामि नम इति क्रमेण आभरणावरोपणं सुगन्धितैलाभ्यङ्गं मज्जनशालाप्रवेशनं मज्जनमण्टपमणिपीठोपवेशनं दिव्यस्नानीयोद्वर्तनं उष्णोदकस्नानं कनककलशच्युतसकलतीर्थाभिषेकं धौतवस्त्रपरिमार्जनं अरुणदुकूलपरिधानं अरुण' कुचोत्तरीयमालेपमण्टपप्रवेशनमालेपमण्टप मणिपीठोपवेशनं चन्दनागरुकुङ्कुम' संकुमृगमदकर्पूरकस्तूरीगोरोचनादिदिव्यगन्धसर्वाङ्गीणविलेपनं केशभरस्य कालागरुधूपं मल्लिकामालतीजातीचम्पकाशोकशतपत्रप्रूगकुड्मलीपुन्नागकल्हारमुख्यसर्वर्तुकुसुममालां भूषणमण्टपप्रवेशनं भूषणमण्टपमणिपीठोपवेशनं नवमणिमकुटं चन्द्रशकलं सीमन्तसिन्दूरं तिलकरत्नं कालाञ्जनं पाळीयुगळं मणिकुण्डलयुगळं नासाभरणं अधरयावकं प्रथमभूषणं कनकचिन्ताकं पदकं महापदकं मुक्तावळिं एकावळिं छन्नवीरं केयूरयुगळचतुष्टयं वलयावळिं ऊर्मिकावळिं काञ्चीदाम कटिसूत्रं सौभाग्याभरणं पादकटकं रत्ननूपुरं पादाङ्गुलीयकं एककरे पाशं अन्यकरे अङ्कुशं इतरकरे पुण्ड्रेक्षुचापं अपरकरे पुष्पबाणान्
शिलारसमृग —— श्री.
3 वाळी - श्री.
1
दुकूलकु — श्री.
2