________________
चतुर्थः खण्डः-ललिताक्रमः
१५९ केनापि प्रमाणेन नित्यमप्राप्तेः । पक्षेऽपि प्राप्त्यभावेन न द्वितीयः । तर्हि तृतीयः स्यादिति चेदिष्टापत्तिः । तथाऽपि सर्वोशे नापूर्वविधिः, उपचारांशे अपूर्वः चतुष्षष्टयंशे नियमः । उपचारविधौ उपचाराणामनन्तत्वेन तत्र नानासंख्याप्राप्तौ चतुष्पंष्टिसंख्याया अपि पक्षे प्राप्तत्वात् । न च—एवमेकस्मिन्नियमापूर्वस्वीकारे विधिसाङ्कय इति वाच्यम् ; इष्टापत्तेः, यदाग्नेयोऽष्टाकपाल इति वाक्ये अग्निपुरोडाशयोः पक्षे प्राप्तौ तदंशे नियमः, यागांशे अपूर्व इति दृष्टत्वात् । न च-चतुष्षष्टयुपचारान् विधाय इत्यग्रिमसूत्रेण परिसंख्याविधिः अनेनोपचारविधिः इति वाच्यम् ; तथा सति अस्मिन् सूत्रे चतुःषष्टिपदवैय्यर्थ्यात् । न च—एवं सति चतुष्षष्टीत्यग्रिमवाक्यं व्यर्थ इति शङ्कनीयम् , चतुष्षष्टयुपचाराननूद्य क्रमविशेषविधानात् । सर्वथा नोपचारस्य सङ्ख्याया विधायकं तत् । कुर्यादिति स्पष्टविध्यन्तं इदमेव सङ्ख्याविशिष्टोपचारविधायकम् ॥ ..
यद्वा--पाठेनैव क्रमसिद्धौ अग्रिमेण चतुष्षष्टयुपचारान् विधाय इत्यनेन क्रमविधानासंभवात् विहितानामेव 'इति चतुष्षष्टयुपचारान् विधाय' इत्यनुवादकं उपसंहाररूपम् । अस्य फलं तु तन्त्रान्तरे चतुष्षष्टयुपचारानन्तर्भूताः उक्तादन्ये केचन सन्ति, तैरर्चनं मा भूत् , किंतु प्रतिनिधिं कल्पयित्वा मन्त्रे श्रुतद्रव्यनाम्नैवार्पणमेतदर्थम् । इत्थं चोक्तोपचारादधिकैः संभवे सति पूजनं कर्तव्यम् । अत एव त्रिपुरार्णवे
उक्तोपचारादधिकैः संभवे सति पूजयेत् ॥ इति वचनं उक्तन्यायगर्भमेव । नियमविधेरयोगव्यवच्छेदे तात्पर्यम् , नत्वन्ययोगव्यवच्छेदे । तेन चतुप्षष्टयुपचारमध्ये एकस्याप्ययोगो मा भवत्वित्यत्रैव तात्पर्यम् , न त्वधिकव्यवच्छेदे । तस्मात् इतोऽधिकानां शिबिकागजाश्वनृत्यादीनां यावतां संभवः तावत्कल्पनं सूत्राविरुद्ध मन्तव्यम् ।
अत्र उपचार पदार्थश्च कल्प्यमानद्रव्यजनितः सुखविशेषः तं कुर्यात् उत्पादयेत् इत्यर्थः ॥
न च नित्यतृप्तायां देवतायां कल्प्यमानद्रव्येण कीदृशी सुखोत्पत्तिः इति वाच्यम् । नित्यतृप्ते सुखोत्पत्तिः न भवतीति सत्यं, तथाऽपि परिच्छिन्नशरीरकल्पनवत्तच्छरीरे सुखकल्पनेन स्वात्मन्यदृष्टोत्पत्तिरेव, न तु कल्पितेन परदेवतायाः सुखोत्पत्तिः ।