________________
१५८
परशुरामकल्पसूत्रम्
इति एता नुच्चार्य, परमेश्वरीत्यन्तं यथाश्रुतं पठित्वा, बिन्दु च के पर चितिमा वा ह ये त् । मन्त्रस्वरूपं तु प्रथमं त्रितारी झै इस्क्रीं ह्स्रौः
महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इत्यष्टत्रिंशद्वर्णो मन्नः । म हा पद्म व न स्य योऽन्तः प्रदेशः तत्रस्थे । महापद्मस्वरूपमुक्तं ब्रह्माण्डपुराणे
पद्माटवीस्थलं वक्ष्ये सावधानो मुने शृणु । समे सुरत्नखचिते तत्र षड्योजनान्तरे ।
परितः स्थलपद्मानि महाकाण्डानि सन्ति वै । सेतुबन्धे तु—“ महापद्मवनं सहस्रदळकमलसमुदायः" इत्युक्तम् । का र णा नन्दः अपरिच्छिन्नानन्दः स एव विग्र हो यस्याः । यद्वा—कारणं प्रथम, तस्मिन् जातः कारणः “ तत्र जातः" इत्यण् । स चासावानन्दश्चेति । शेषं पूर्ववत् । शेषं स्पष्टम् । यद्वा-चैतन्यमहसो बहिर्निस्सारणं कृत्वा मन्त्रेण परिच्छिन्नां मूर्ति कल्पयित्वा हस्ते समानीय मन्त्रेण पीठनिवेशनान्तं आवाहनपदार्थः, अवदानादिप्रदानान्तस्येव बहीनां क्रियाणां एकपदार्थत्वे बाधकाभावात् । तेन यत्र दीक्षाऽऽदौ नानादेवत्तानां तन्त्रण पूजनं तत्र समुदायस्यैकपदार्थत्वात् काण्डानुसमयः तावतां सिद्धः । एतादृशावाहनैकदेशपीठनिवेशने साधनीभूतोऽयं मन्त्रः ॥
निबन्धकारस्तु ज्ञानार्णवोक्तं अन्तर्यागक्रमं आवाहनादिमुद्राश्च दर्शयामास । तदनादरणीयं, प्रमाणाभावात् ॥ ३ ॥
चतुष्षष्टयुपचारविधिः चतुष्षष्टयुपचारान् कुर्यात् । सर्वे उपचारमत्राः त्रितारीपूर्वाः कल्पयामि नम इत्यन्ताः कर्तव्याः॥४॥
चतुष्षष्टीत्यनेन एतत्तन्त्रानुयायिनां तन्त्रान्तरोक्तषोडशाद्यन्यतमपूजाव्यावृत्तिः॥ ननु किमयं परिसंरव्याविधिः उत नियमविधिः उत अपूर्वविधिः । नाद्यः,