________________
चतुर्थः खण्डः-ललिताक्रमः बाह्यस्वरूपं तेन शि ख ण्डि ते ग्रथिते कु सु म युक्ता अञ्ज लि: यस्मिन् तस्मिन् हस्ते समानीय गृहीत्वा ॥ १ ॥
मायालक्ष्मीपरा उच्चार्य देवीनाम चामृतचैतन्यमूर्ति कल्पयामि नमः इति कल्पयित्वा ॥ २ ॥
मा या ही, श्रीं इति लक्ष्मी शब्दार्थः, परा सौः । एतद्विषय प्रमाणानि पूर्वमेव दर्शितानि । एवं बीजत्रय मुच्चार्य देवी नाम शक्तिचक्रैकनायिकायाः ललितायाः इति षष्ठयन्तं, योग्यत्वात् । ततो नमो ऽन्तमविकृतं पठेत् । एवं च आदौ साधारणपरिभाषाप्राप्ता त्रितारी ऐं ह्रीं श्रीं ह्रीं श्रीं सौः शक्तिचक्रैकनायिकायाः ललितायाः अमृतचैतन्यमूर्ति कल्पयामि नमः इति त्रयस्त्रिंशद्वर्णो मन्त्रः । अनेन परदेवताया मूर्ति क ल्प यित्वा भावयित्वा ।।
___ अत्र पूर्वसूत्रे लीलाऽऽकलितवपुषः हस्ते आगतायाः पुनर्मूर्तिकल्पने वैय्यर्थ्यादतः प्रबलेनार्थक्रमेण पाठक्रमबाधः । तथाचायं क्रम:-प्रथमं केवलचितो मूर्तिकल्पनमनेन मन्त्रेण ततो मूर्तेः कल्पितायाः नासापुटमार्गेण निर्गमनं ततो हस्ते कुसुमगर्भेऽञ्जलौ समानयनमिति विवेकः ॥ २ ॥
हसरयुजं वाचं हसयुक्तां कलरी हसरचतुर्दशषोडशानप्युच्चार्य,
महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इति बैन्दवचक्रे परचितिमावाह्य ॥ ३॥
पूर्व न्यासप्रकरणे उक्तेन समुदायग्रहण इति न्यायेन हसेत्यादिषु केवलव्यञ्जनमात्रग्रहणं, संप्रदायात् । हश्च सश्च रश्च तैर्यु वाचं झै इति । हश्च सश्च आभ्यां युक्तोऽयं ककारलकाररेफेकारबिन्दुसमुदायः ह्स्क्लरी इति । तथा हश्च सश्च रश्च चतुर्दश औकारः स च षोडशो विसर्गः स च ह स र चतुर्द श षोड शाः, सौः