________________
चतुर्थः खण्ड:-ललिताक्रमः ति । तस्यां यानि पद्मा नि विशुद्धयादीनि तेषां अट वी दुर्गमं वर्ल्स तस्य नि में द नं मनागमनानुकूलवर्त्मसंपादनं तद्विषये कु श ला म् । अनेन विशेषणेन हृदयात् श्रीचक्रादौ आगमने पूजाऽनन्तरं पुनर्गमने प्रयासाभावः सूचितः । निरस्ते तिने र स्तः दूरीकृतः मो हो ऽज्ञानं तदेव ति मि रं यया ताम् । एतद्विशेषणार्थ दृढीकर्तु वेशेषणान्तरमाह-शिवेति । शि वा त्मको यो दी पः तस्य दी प्ति प्रकाशरूपाम् । एतेन काशरूपत्वकथनेन पूर्वविशेषणेन प्रतिपादितं अज्ञानतिमिरनाशनं सूपपादमिति वनितम् । किं च—यथा दीपप्रभयोरविनाभावसंबन्धः एवं शिवशक्त्योरप्यविनाभावः सूचितः । अयमेवार्थः स्पष्टमुक्तो ब्रह्माण्डपुराणे
त्रिकोणरूपिणी शक्तिः बिन्दुरूपः परः शिवः ।
अविनाभावसंबन्धः तस्माद्विन्दुत्रिकोणयोः ॥ इति ॥ ___ श्रीदेवीभागवतेऽपि
यस्मिन् धर्मिणि यो धर्मोऽविनाभूतश्च तिष्ठति ।
स धर्मी शिवरूपः स्याद्धर्मश्शक्तिस्वरूपधृक् ॥ इति । अनयोर्वस्तुनोरौपाधिको भेदो न वास्तव इति तत्त्वनिरूपणे प्रपञ्चितं प्रागेव । आद्यां सं विदं अपरिच्छिन्नसंविदं वह न् ना सा पुटे न, येन नासापुटेन अप्रयत्नेन श्वासो निर्गच्छति तेन मार्गेण निर्ग म य्य, यथा निर्गमनं भवेत् तदनुकूलव्यापारं कुर्यात् । अत्र तादृशो व्यापारः हृदयस्थानात् उक्तमार्गेण निर्गमनभावनमेव । तदनन्तरव्यापारं विधत्ते-ली ले ति । ली ल या स्वेच्छामात्रेण आ क लि तं स्वीकृतं व पुः ध्यानश्लोकोक्तं यया । एतेन इतरशरीरवत् गर्भवासेन विना भक्तानुग्रहाय स्वीकृतमनोहरवपुष्टुं सूचितम् । उक्तं च गीतायाम्
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ इति ॥ मार्कण्डेयपुराणेऽपि
एवं यदा यदा बाधा दानवोत्था भविष्यति । तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् ॥ इति ॥