________________
परशुरामकल्पसूत्रम्
गालिन्याः पुष्पं दत्वेत्यन्तं अनुक्तं संगृहीतम् । अत्र प्रमाणाभावात् केवलतद्बुद्ध्या
रचितमसंग्राह्यम् ॥ ३२ ॥
१.५४
इति ... कल्पसूत्रवृत्तौ श्रीक्रमो नाम तृतीयः खण्डः ॥
चतुर्थः खण्डः–ललिताक्रमः
श्रीचक्रे परचित्यावाहनम्
हृदि स्थिताया देवतायाः श्रीचक्रे आवाहनप्रकारं दर्शयितुमुपक्रमतेअथ
हृच्चक्रस्थितामन्तस्सुषुम्नापद्माटवीनिर्भेद
नकुशलां निरस्तमोहतिमिरां शिवदीपदीप्तिमाद्यां संविदं वहन्नासापुटेन निर्गमय्य लीलाssकलितवपुषं तां त्रिखण्डमुद्राशिखण्डे कुसुमाञ्जलौ हस्ते समानीय ॥ १ ॥
1
अथेति क्रमविशेषद्योतकं, " अथ जिह्वाया अथ वक्षसः इतिवत् । यद्वा — पूर्वप्रकरणविच्छेदद्योतकम् । हृच्च क्रं अनाहतं, तदेव दहमित्यपि व्यवह्नियते । तत्र स्थितां । शास्त्रे देवतानिवासस्थानं तदेव प्रसिद्धम् । तथा च श्रुतिः:-" तत्रापि दह्वं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्” इति । स्कान्दपुराणेऽपि - “ हृत्पुण्डरीकान्तरसन्निविष्टम् " इति । अतो देवताया निवासस्थानं हृच्चक्रम् । तत्र स्थिताया बाह्योपचारपूजनं न संभवति । अतः तत्र स्थानाद्वहिरानयनार्थं सार्वकालिकं स्थानं ज्ञापयितुमिदं विशेषणं ज्ञेयम् । सुषुम्नाऽपि मूलाधारादिब्रह्मरन्ध्रस्थसरोरुहान्तानां कमलानां गुंफनाधारभूतदण्डाकृतिरेको नाडीविशेषः । तदुक्तं विष्णुपुराणे -
मूलादिदेहचक्राणामाधाराऽसौ प्रकीर्तिता ।
या सुषुम्नेति सर्वत्र गीयते परमर्षिभिः ||