________________
१५१
तृतीयः खण्डः-श्रीक्रमः भावचूडामणौ
तन्त्राणामतिगूढत्वात्तद्भावोऽप्यतिगोपितः । ब्राह्मणो वेदशास्त्रार्थतत्त्वज्ञो बुद्धिमान् वशी ।। गूढतन्त्रार्थभावस्य निर्मन्थ्योद्धरणक्षमः ।
कौळमार्गेऽधिकारी स्यादितरो दुःखभाक् भवेत् ॥ इति ॥ ___ कुलार्णवे
अहो भुक्तं तु यन्मद्यं मोहयेत् त्रिदशानपि । तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः ॥ जपन् शिवपरो भूत्वा स मुक्तः स च कौलिकः ॥ इति ॥
भगवता परशुरामेणापि कौलाचारे मुख्यधर्मत्वेन “कामक्रोधलोभमोहमदमात्सर्याविहितहिंसास्तेयलोकविरुद्धलोकविद्विष्टवर्जनं" इति प्रतिपादितम् । तेन यथा आज्यावेक्षणाद्यङ्गानुसारेण चक्षुष्मत एव दर्शपूर्णमासयोरधिकारः नान्धानां, तथा कामक्रोधादिवर्जनाद्यङ्गानुसारेण जितेन्द्रियस्यैव अधिकारो नान्यस्येति सूत्रकृदभिप्रायः । एवमन्येप्वपि तन्त्रेषु बहूनि वचनान्युपलभ्यन्ते । तानि अनतिप्रयोजनत्वात् ग्रन्थविस्तरभयाच्च न लिखितानि ॥
संप्रति इदानींतनाः अजितेन्द्रियाः चपलजिह्वाः शिश्नोदरपरायणाः रागान्धतया आरोपितकौलिकताकाः केवलद्रव्यमात्रलोलुपाः लिखितवचनान्यनादृत्य स्वाधिकारमविचार्यैव स्वाभिप्रायसाधनानि " पीत्वा पीत्वा पुनः पीत्वा” इति, “ आगळान्तं पिबेत् द्रव्यं" इत्यादिकुलार्णववचनान्येव पुरस्कृत्य तदभिप्रायमजानन्तो जानन्तो वा धूर्ताः सन्तः यथेच्छाऽऽचारं कुर्वन्ति । इहामुत्र न कुत्रापि शर्म लभन्ते । प्रत्युत महापातकजनितयातनां श्रीधर्मराजशासनात् लभन्त एव । नात्र सन्देहः । तादृशाः पतिताः, तन्त्रगोष्ठीषु न स्मर्तव्याः । अत एवैतादृशकौलिकानामुपहासोऽपि विस्तरेण कृतः प्रबोधचन्द्रोदये । तस्मात् जितेन्द्रियाणां भक्तिश्रद्धावतां विदुषां आरम्भे प्रतिपादितभक्तिभूमिकामारूढानामेव अत्राधिकारः, अन्येषां पतनायैव इत्यलं विस्तरेण । उक्ताधिकारिभिन्नानां विष्ण्वाद्युपासनं केवलवैदिकमार्गेणेति तत्त्वम् ॥