________________
१५०
परशुरामकल्पसूत्रम्
इति समयाङ्कमातृकायां स्थितम्-ईदृशानि वचनान्यनुगृहीतानि भवन्ति । एवं च ब्राह्मणेतरपरमित्यत्यन्तमशुद्धमिति अकृत्रिमया स्वमत्या विचार्यमाणे प्रतिभाति । इतोऽधिकं निर्मत्सराः पण्डिताः विचारयन्तु । " इमां विज्ञाय सुधिया मदन्ति" इति त्रिपुरोपनिषत्सप्तममन्त्रभाष्येऽप्येवमेव स्थितम् ॥
यत्तु सौभाग्यानन्दसन्दोहे अस्मद्व्यवस्थापितार्थमेव प्रतिज्ञाय वैदिकमन्त्रैरभिमन्त्रणस्य विहितत्वात् शूद्रपूजापरत्वे तत्र तस्यानवकाशाद्विधरनवकाशापत्तिहेतुना ब्राह्मणाधिकारः साधितः, स तु अतिशिथिलः । “ वर्षासु रथकार आदधीत" इत्यत्र रूढिशक्त्या योगं बाधित्वा सङ्करजातेराधानाधिकारसिद्धौ तदनन्तरं तदुपयुक्तवेदाध्ययनमपि कल्प्यत इति षाष्ठन्यायेन शूद्रस्य युक्त्या अधिकारसिद्धौ वेदमन्त्रपाठे यावदुपयुक्ते अधिकारस्यानिवार्यत्वेन अनेन हेतुना स्वेप्सितासिद्धेः ॥
एतावत्पर्यन्तं ब्राह्मणे अधिकारव्यवस्था कृता । व्यवस्थितोऽप्ययमधिकारो न सर्वस्य, किं तु जितेन्द्रियस्य कामादिरहितस्यैव । अत एव परमानन्दतन्त्रे
अयं तु परमः कौळमार्गः सम्यङ्महेश्वरि । असिधाराव्रतसमो मनोनिग्रहहेतुकः ॥ स्थिरचित्तस्य सुलभः सफलस्तूर्णसिद्धिदः ।
अन्यस्य विफलो दुःखहेतु: स्यात् परमेश्वरि ॥ इति ॥ त्रिपुरार्णवेऽपि.
अयं सर्वोत्तमो धर्मः शिवोक्तः सुखसिद्धिदः । जितेन्द्रियस्य सुलभो नान्यस्यानन्तजन्मभिः ॥ यदूर्ध्वरेतसां सर्वत्यागिनामनिकेतिनाम् । क्षणेन स्मृतमात्रेण मोहमुत्पादयत्यलम् ॥ तदेवात्र हि संसिद्धौ कारणं सर्वमीरितम् । इतो मद्यमितो मांस भक्ष्यमुच्चावचं तथा ॥ तरुण्यश्चारुवेषाढ्या मदघूर्णितलोचनाः । तत्र संयतचित्तत्वं सर्वथा यतिदुष्करम् ।। भक्तिश्रद्धाविहीनस्य कथं स्यादेतदीश्वरि ॥ इति ।