________________
- श्रीक्रमः
तृतीयः खण्डः -
इति कुलार्णवे,
अजितेन्द्रियब्राह्मणपरम्, तस्य द्रव्यदाननिषेधस्याग्रे वक्ष्यमाणत्वात् । यच्च कुलार्णववचनम् “ ब्राह्मणैस्तु सदाऽपेयं” इति तत्र अकारप्रश्लेषं कृत्वा योऽयं ब्राह्मणानां निषेधः कृतः स पुमर्थपर इति पराभिप्रायः । क्षत्रियस्य संग्रामकाले, विकलस्य संग्रामासंभवात् इत्यादिनिषेधहेतुलेखात् । स चास्माकमिष्ट एव । क्रत्वर्थातिरिक्तद्रव्यस्वीकारो ब्राह्मणस्य नास्तीति वयमपि ब्रूमः । यश्च हरिनाथोक्तः सौत्रामण्यां कलौ सुराग्रहनिषेधः सोऽप्यस्माकमनुमतः । न तावता कुलाचारेऽपि निषेधः संभवति । कलियुगसंबन्धिसौत्रामणिग्रहत्वं सुरानिषेधोद्देश्यताऽवच्छेदकं, तदनाक्रान्तत्वात् कुलाचारस्य कैमुतिकन्यायप्रवेशे अतिप्रसङ्गात् । तस्मात् परोक्तानां ब्राह्मणविषये बाधकानां गन्धस्याप्यभावेन साधकसहस्रस्य दर्शितत्वेन तन्त्रप्रामाण्यमङ्गीकुर्वतः ब्राह्मणादिकर्तृकपूजायां प्रथमादरः शास्त्रप्राप्तः । स तु ब्रह्मणाऽपि त्यक्तुमशक्यः । इत्थं च
विना द्रव्याधिवासेन न स्मरेन जपेत् प्रिये । ये स्मरन्ति महादेवि तेषां दुःखं पदे पदे ॥ नासवेन विना मन्त्रं न मन्त्रेण विनाऽऽसवम् ॥
विनाऽलिपिशिताभ्यां च पूजनं निष्फलं भवेत् ।
इति समयाचारे,
विना हेतुमास्वाद्य क्षोभयुक्तो महेश्वरि । न पूजां न जपं कुर्यान्न ध्यानं नच चिन्तनम् ॥ इति भावचूडामणौ,
विनाऽलिपिशिताभ्यां च यः कुर्यात् पूजनं मम । दुःख सन्धाकरो भूत्वा योगिनीनां पशुर्भवेत् ॥ इति कालिकापुराणे
१४९
यः कुर्यादादिमद्रव्यविहीनं तव पूजनम् । तव क्रोवेन दग्धः सन् भस्मीभवति नान्यथा ॥
संपादको - श्री.