________________
१४८
परशुरामकल्पसूत्रम् इति विवरणेन उक्तद्रव्यप्रकृतिकद्रव्यस्य सदा प्राप्तौ उक्तानाममीषां संघाते क्षीरादिसंज्ञाया अप्रवृत्तेः संभवत्क्षत्रियम्य वल्कलप्रकृतिकद्रव्यस्य कृतयुगे प्राप्तौ एतद्[?] द्राक्षादिप्रकृतिकस्यापि प्राप्तौ विकल्पः । शूद्रस्य वचनद्वये एकरूपत्वात् कृते न विकल्पः । एवं त्रेताऽऽदिषु यथायथं स्वयमूह्यम् । कलियुगे ब्राह्मणस्य ज्ञानार्णवत्रिपुरार्णववचनाभ्यां ऐक्षवमधुप्रकृतिकं प्राप्तं " पूजनीया कलौ सर्ववर्णैः केवलमासवैः' इति । एवं सति
कृते तु शूरैः संपूज्या प्रत्यक्षैरासवैः प्रिये । त्रेतायां वैश्यशूद्राभ्यां नृपाद्यैः द्वापरे युगे ।
कलौ युगे महादेवि ब्राह्मणाद्यैः प्रपूजिता ।। इति रहस्यार्णववचनं यापतिष्ठते तदा कृतेतरवचनैः द्रव्येतरविशेषः सर्ववर्णेषु प्राप्तः, रहस्यार्णववचनेन शूद्रातिरिक्त परिसंख्याऽपि प्राप्ता, तथा सति कृते त्रैवर्णिके विकल्पः प्रत्यक्षस्य द्रव्यस्य । यद्वा-रहस्यार्णवेऽपि कृतयुगसंबन्धिशूद्रकर्तृकप्रयोगे प्रत्यक्षासवं तण्डुलप्रकृतिकं विधीयते । तेन तन्त्रान्तरेण शूद्रस्य आसवप्राप्तौ वैय्यर्थ्यभिया परिसंख्यात्वकल्पनं अश्रद्धेयम् । तथा सति ब्राह्मणादिकर्तृकप्रयोगे द्रव्यस्य आकाङ्क्षितत्वात् अन्यस्मात् तन्त्रात् क्षीरादिकं ग्राह्यम् । न विकल्पः । एवमेव त्रेतायां रहस्यार्णववचनं शूद्रवैश्ययोरासवं विदधाति । तथा सति वैश्यस्य अनेन आसवं प्राप्तम् । यामळवचनेन घृतं प्राप्तम् । अत्र विकल्पः । एवं द्वापरे वैश्यक्षत्रिययोः आसवमधुविकल्पः उक्तवचनद्वयेन । कलियुगे तु उभयोः एकरूपतया विरोधाभावात् अविचार एव । युक्तश्चायमेव पक्षः, न परिसङ्ख्यापक्षः । इत्थं च " यत्रावश्यं विनिर्दिष्टं" इति कुलचूडामणिवचनं तस्मिन् ‘मुख्यालाभे' इति पूरणीयम् । मुख्यालाभे ब्राह्मणेन तत्स्थाने ताम्रपात्रे मधु योजयेत् इति तदर्थः । एवं सति “ ताने गव्यं तथा मधु । राजन्यवैश्ययोरेवं न द्विजस्य कदाचन" इति महाकालसंहितावचनेन विरुध्यते । तथा तुल्यबलत्वाद्विकल्पो न परिहार्यः परमतेऽपि ॥
यदपि हंसमाहेश्वरतन्त्रवचनं "ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते" इति तत् यदि तत्तन्त्रे क्षत्रियादीनां कुलद्रव्यविधिसमीपे स्यात् तर्हि तच्छेषोऽर्थवादः " अपशवो वा अन्ये गो अश्वेभ्यः” इतिवत् । यदि तत्समीपे न स्यात् तर्हि
1 हंसपारमेश्वर–ब१.