________________
तृतीयः खण्डः- श्रीक्रमः
ऋत्विजः", " वायव्यं श्वेतमालभेत भूतिकामः", इत्यादौ शतशो व्यभिचारात् । तीनुवाद्यमनुक्त्वेति प्रामाणिकोक्तेः का गतिरिति चेत् , असति बाधके प्रथमनिर्दिष्टमुद्देश्य प्रायेण भवतीति तस्याभिप्रायः । प्रकृते क्षीरमुद्दिश्य वृक्षसमुद्भूतत्वविधाने वैय्यर्थ्यमेव बाधकम् । इदं कथं न ज्ञातं परेण । एवं “आसवं तण्डुलोद्भवं' इत्यत्र तण्डुलोद्भवशब्दस्य ओदनमर्थ ब्रुवन् तत्साधकतया " आमं शूद्रस्य पक्वान्नं” इति च लिखन् बालानामप्युपहास्यो बभूव । एतेन लघुस्तवरत्नस्य साधकत्वलेखो दूरीकृतः, क्षीरादीनां साङ्केतिकशब्दानां तत्र गृहीतत्वात् । यत्तु शुक्रशापविमोचनलिङ्गापेक्षया "ब्राह्मणो मदिरां दत्वा” इति प्रत्यक्षश्रुतेः प्राबल्यमिति कथनं, तदपि तुच्छम् । न हि "ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते” इत्यत्र निषेधार्थे नञ् श्रुतिः विधिप्रत्ययरूपाऽस्ति । किं तु मदिरादाननिन्दया कल्प्यो विधिः । इत्थं च तस्य प्रत्यक्षश्रुतित्वं ब्रुवन् विद्वत्समाजे किमुत्तरं वदेदिति न विद्मः । इत्थं च शुक्रशापविमोचनसहितस्य “सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम्” इति कुलाचारस्थप्रत्यक्षस्वलिखितवचनस्य गतिं अकल्पयित्वा मुखेन ब्राह्मणेतरपरमिति प्रतिज्ञामात्रेण परेषां मोहमुत्पादयन् तान्त्रिकबहिप्कृतो मन्तव्यः ॥ ___ इत्थं च वचनानामियं व्यवस्था--' द्रव्येण सात्विकेन' इत्यत्र ‘ क्षीरेण ब्राह्मणैस्ता' इत्यस्य लघुस्तवस्थमहाकालसंहितावचनस्य व्यवस्था दर्शिता । तथा च यच्च भैरवीतन्त्रवचनं क्षीरेण ब्राह्मणैस्ता ' इति, यच्च बृहद्वामकेश्वरतन्त्रे “क्रमेण ब्राह्मणाद्यैस्तु क्षीराज्य माक्षिकासवैः' इति, यच्च लघुस्तववचनं, तेषां सामान्यरूपत्वात् यामळवचने “ सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टजैः' इत्यत्रोपसंहारः । इत्थं च क्षीरादीनां भैरव्यादितन्त्रैः अविशेषेण सदा प्राप्तौ कालविशेषे कर्तृविशेषे क्षीरादिद्रव्यविशेष इति संकोचसंपादकं यामळवचनम् । यत्तु ज्ञानार्णवस्थं " द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम्” इति, “ ऐक्षवक्षौद्रजातायाः” सात्त्विकद्रव्यस्य क्षीरपदवाच्यतया यामळवचनेन संकोचासंभवात् युगचतुष्टये प्राप्नुवबाह्मणकर्तकप्रयोगे विकल्पः प्राप्नोति । एवं “ राजसी नृपवैश्ययोः' इत्यनेन क्षत्रियवैश्यकर्तृकप्रयोगे
मधूककुसुमद्राक्षातालवृक्षादिसंभवा । माध्वीति कीर्तिता तज्ज्ञैः राजसी ॥ 1 सर्वेषां-श्री.
2 मधुपिष्टजैः-श्री.