________________
१४६
परशुरामकल्पसूत्रम्
क्षीरपदस्य प्रसिद्धार्थं बाधित्वा अर्थविशेषतात्पर्यग्राहकं “ क्षीरं वृक्षसमुद्भूतं ” इति वचनमिति न कस्याऽपि वैय्यर्थ्यम् । अन्योऽपि नानुपपत्तिगन्धः । यद्यपि विधायकत्वाभावेन वैय्यर्थ्य कल्प्यम् । तथाऽपि " यदाग्नेयमष्टाकपालं निर्वपति सौम्यं चरुं" इत्यष्टौ हवींषि चातुर्मास्ये विधाय पुनः 'वैश्वदेवेन यजेत" इति समुदायस्य वैश्वदेव इति सङ्केतः कृतः । तेन " वसन्ते वैश्वदेवेन यजेत " इत्यत्र यागेन विश्वेदेवयागस्यैव वसन्ते प्राप्तौ तं बाधित्वा नवीनसङ्केतेन अष्टानां यागानां संपत्ति कुर्वन् सार्थकं तद्वाक्यं इत्युक्तं जैमिनितन्त्रे । तथा सार्थकं भवितुमर्हति ॥
न च – स्वेनैव क्षीरपदमत्यन्तरूढं प्रयुज्य रूढिशक्तिं परित्यक्तुं व्याख्याऽन्तरं कृतम्, एवं न कुत्रापि दृष्टं इति वाच्यम् । काशीखण्डे -
अरुन्धतीं ध्रुवं चैव तथा सप्तर्षिमण्डलम् । आसन्नमृत्युर्नो पश्येत्
11
(6
इति प्रथममुक्त्वा “ अरुन्धती नासिकाग्रं” इत्यादिना स्वेनैव व्याख्यातम् । एवं शतशः सन्ति, परं तु प्रयोजनाभावात् अधिकं न लिखितम् ॥
अस्मिन् वचने चतुर्थचरणे “ आसवं तण्डुलोद्भवं " इत्यत्र तण्डुलोद्भवमिति पिष्टोद्भवस्यापि उपलक्षकं बृहद्वामकेश्वरतन्त्रे
क्षीरमाज्यं मधु तथा ह्यासवं च महेश्वरि । वृक्षत्वक्पुष्पपिष्टोत्थं क्रमात् ज्ञेयं विचक्षणैः ॥
इत्यत्र पैष्टेऽपि आसवसङ्केतस्य कृतत्वात् । एतेन परमते दण्डप्रक्षेपात्मको हेतुः क्षीरवृक्षपदादेः वैपरीत्येन प्रयोगापत्तेः इति, तत्साधकतया अनुवाद्यमनुक्त्वेति, लेखः, स सर्वोऽपि पराहतः, अर्थविशेषतात्पर्यग्राहकत्वेन वर्णनेन अत्र उद्देश्यविवेयभावगन्धस्याप्यभावात् । अत एव नामधेयपादे “ उद्भिदा यजेत" इत्यत्र नामधेयस्याविधेयतया न स्वतः धर्मे प्रामाण्यम्, किंतु ऋत्विजां प्रयोगविधिस्मारकतया तारेति स्थितमाकरे ॥
अस्तु वा परप्रीतये अशास्त्रीयः वृक्षसमुद्भूतमुद्दिश्य क्षीरसंज्ञा विधीयते इत्यङ्गीकारः । तथाऽपि परप्रक्षिप्तदण्डः अस्मिन्मते असह्यः । यद्यत् प्रथमनिर्दिष्टं इति व्याप्तिसिद्धमूलो हि दण्डप्रक्षेपः, स त्वसिद्धः, “ दघ्ना जुहोति ”, “ ये यजमानास्त